अथ याज्ञवल्क्यो होवाच ब्राह्मणा भगवन्तो, योवः कामयते, समा पृच्छतु, सर्वे वा मा पृच्छत; योवः कामयते, तं वः पृच्छामि, सर्वान्वा वः पृच्छामीति॥ तेह ब्राह्मणानदधृषुः
तान्हैतैः श्लोकैः पप्रच्छः यथा वृक्षोवनस्पतिः तथैवपुरुषोऽमृषाः तस्य पर्णानि लोमानि त्वगस्योत्पाटिका बहिः
त्वचएवास्य रुधिरं प्रस्यन्दि त्वचउत्पटस्; तस्मात्तदातुन्नात् \^ प्रैति, रसो वृक्षादिवाहतात्
माँसान्यस्य शकराणि, किनाटँ स्नाव, तत्स्थिरम्; अस्थीन्यन्तरतो दारुणि, मज्जामज्जोपमाकृता
यद्वृक्षोवृक्णोरोहति मूलान्नवतरः पुनः मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति
3-4 9-10 रेतस इति मावोचतः जीवतस् तत्प्रजायते; जातएवनजायते, कोन्वेनं जनयेत्पुनः धानारुह . वैवृक्षो अन्यतः ~ प्रेत्य सम्भवो॥ यत्समूलमुद्वृहेयुर् \^ वृक्षं, नपुनराभवेद्; मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति॥ विज्ञानमानन्दं ब्रह्म, रातेर् दातुः, परायणं तिष्ठमानस्य तद्विद इति॥ 4 1 = 14.6.10?? =
जनकोह वैदेह आसां चक्रे॥ अथ ह याज्ञवल्क्य आवव्राज॥ सहोवाच जनकोवैदेहो . याज्ञवल्क्य, किमर्थमचारीः, पशूनिच्छनण्वन्तानीति॥ उभयमेव, सँराड्, इति होवाच
. . \^. अब्रवीन्म ऊदङ्कः हौल्वायनः प्राणोवैब्रह्मेति॥ यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तच्छौल्वायनो अब्रवीत् प्राणोवैब्रह्मेति, अप्राणतो हिकिँ स्यादिति॥ अब्रवीत्तुते तस्यायतनं प्रतिष्ठां॥ नमेऽब्रवीदिति॥ एकपाद्वाएतत् सम्राड्, इति
सवैनो ब्रूहि, याज्ञवल्क्य॥ स एवायतनम् आकाशः प्रतिष्ठा, प्रियमित्य् एनदुपासीत॥ काप्रियता, याज्ञवल्क्य॥ प्राणएव, सम्राड्, इति होवाच; प्राणस्य वै, सम्राट्, कामायायाज्यं याजयति अप्रतिगृह्यस्य प्रतिगृह्णाति अपि तत्र वधाशङ्गा \^ भवति, यां दिशमेति प्राणस्यैव, सम्राट्, कामाय; प्राणोवै, सम्राट्, परमं ब्रह्म॥ नैनं प्राणोजहाति, सर्वाण्य् एनं भूतान्यभिक्षरन्ति
देवोभूत्वादेवानप्येति, यएवं विद्वानेतदुपास्ते॥ हस्त्य्\. सहस्रं ददामीति होवाच जनकोवैदेहह्॥ सहोवाच याज्ञवल्क्यः पितामेऽमन्यत, नाननुशिष्य हरेतेति॥ कएवते किमब्रवीदिति . \`॥.
. .\^. अब्रवीन्मे जित्वा हैलिनो वाग्वैब्रह्मेति॥ यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तच्छैलिनो अब्रवीद् वाग्वैब्रह्मेति अवदतो हिकिँ स्यादिति॥ अब्रवीत्तुते तस्यायतनं प्रतिष्ठां॥ नमेऽब्रवीदिति॥ एकपाद्वाएतत् सम्राड्, इति
सवैनो ब्रूहि, याज्ञवल्क्य॥ वागेवायतनम् आकाशः प्रतिष्ठा, प्रज्ञेत्य् एनदुपासीत॥ काप्रज्ञता, याज्ञवल्क्य॥ वागेव, सम्राड्, इति होवाच; वाचावै, सम्राड्, बन्धुः प्रज्ञायत; ऋग्वेदोयजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्याउपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि . . वाचैव, संराट्, प्रज्ञायन्ते; वाग्वै, सम्राट्, परमं ब्रह्म; नैनं वाग्जहाति, सर्वाण्य् एनं भूतान्यभिक्षरन्ति
देवोभूत्वादेवानप्येति, यएवं विद्वानेतदुपास्ते॥ हस्त्य्\. सहस्रं ददामीति होवाच जनकोवैदेहः॥ सहोवाच याज्ञवल्क्यः पितामेऽमन्यत, नाननुशिष्य हरेतेति॥ कएवते किमब्रवीदिति . \`॥.
. .\^. अब्रवीन्मे बर्कुर्वार्ष्णश्: चक्षुर्वैब्रह्मेति॥ यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तद्वार्ष्णोऽब्रवीच्: चक्षुर्वैब्रह्मेति अपश्यतो हिकिँ स्यादिति॥ अब्रवीत्तुते तस्यायतनं प्रतिष्ठां॥ नमेऽब्रवीदिति॥ एकपाद्वाएतत् सम्राड्, इति
सवैनो ब्रूहि, याज्ञवल्क्य॥ चक्षुरेवायतनम् आकाशः प्रतिष्ठा, सत्यमित्य् एतदुपासीत॥ कासत्यता, याज्ञवल्क्य॥ चक्षुरेव, सम्राड्, इति होवाच; चक्षुषा वै, सम्राट्, पश्यन्तमाहुः अद्राक्षीरिति॥ सआहाद्राक्षमिति, तत्सत्यं भवति; चक्षुर्वै, सम्राट्, परमं ब्रह्म; नैनम्चक्षुर्जहाति, सर्वाण्य् एनं भूतान्यभिक्षरन्ति
देवोभूत्वादेवानप्येति, यएवं विद्वानेतदुपास्ते॥ हस्त्य्\. सहस्रं ददामीति होवाच जनकोवैदेहः॥ सहोवाच याज्ञवल्क्यः पितामेऽमन्यत, नाननुशिष्य हरेतेति॥ कएवते किमब्रवीदिति . \`॥.
. . \^. अब्रवीन्मे गर्दभीविपीतो भारद्वाजः श्रोत्रं वैब्रह्मेति; यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तद्भारद्वाजोऽब्रवीच्: छ्रोत्रं वैब्रह्मेति अशृण्वतो हिकिँ स्यादिति॥ अब्रवीत्तुते तस्यायतनं प्रतिष्ठां॥ नमेऽब्रवीदिति॥ एकपाद्वाएतत् सम्राड्, इति
सवैनो ब्रूहि, याज्ञवल्क्य॥ श्रोत्रमेवायतनम् आकाशः प्रतिष्ठानन्तमित्य् एनदुपासीत॥ कानन्तता, याज्ञवल्क्य॥ दिश एव, सम्राड्, इति होवाच; तस्माद्वै, सम्राड्, . \` यां काङ्च दिशं गच्छति नैवास्या अन्तं गच्छति अनन्ताहिदिशः, श्रोत्रँ हिदिशः , सम्राट्, . श्रोत्रं वै, सम्राट्, परमं ब्रह्म॥ नैनं श्रोत्रं जहाति, सर्वाण्य् एनं भूतान्यभिक्षरन्ति
देवोभूत्वादेवानप्येति, यएवं विद्वानेतदुपास्ते॥ हस्त्य्\. सहस्रं ददामीति, होवाच जनकोवैदेहः॥ सहोवाच याज्ञवल्क्यः पितामेऽमन्यत, नाननुशिष्य हरेतेति॥ कएवते किमब्रवीदिति . \`॥.
. . \^. अब्रवीन्मे षत्यकामो जाबालोः मनो वैब्रह्मेति; यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तत्षत्यकामो अब्रवीद् मनो वैब्रह्मेति अमनसो हिकिँ स्यादिति॥ अब्रवीत्तुते तस्यायतनं प्रतिष्ठां॥ नमेऽब्रवीदिति॥ एकपाद्वाएतत् सम्राड्, इति
सवैनो ब्रूहि, याज्ञावल्क्य॥ मन एवायतनम् आकाशः प्रतिष्ठानन्दइत्य् एनदुपासीत॥ कानन्दता, याज्ञवल्क्य॥ मन एव, सम्राड्, इति होवाच; मनसा वै, सम्राट्, स्त्रियमभिहर्यति तस्यां प्रतिरूपः पुत्रोजायते; सआनन्दो॥ मनो वै, सम्राट्, परमं ब्रह्म; नैनं मनो जहाति, सर्वाण्य् एनं भूतान्यभिक्षरन्ति
देवोभूत्वादेवानप्येति, यएवं विद्वानेतदुपास्ते॥ हस्त्य्\. सहस्रं ददामीति होवाच जनकोवैदेहः॥ सहोवाच याज्ञवल्क्यः पितामेऽमन्यत, नाननुशिष्य हरेतेति॥ कएवते किमब्रवीदिति . \`॥.
. . \^. अब्रवीन्मे विदग्धः हाकल्योः हृदयं वैब्रह्मेति; यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तच्छाकल्योऽब्रवीद् धृदयं वैब्रह्मेति अहृदयस्य हिकिँ स्यादिति॥ अब्रवीत्तुते तस्यायतनं प्रतिष्ठां !॥ नमेऽब्रवीदिति॥ एकपाद्वाएतत् सम्राड्, इति
सवैनो ब्रूहि, याज्ञवल्क्य॥ हृदयमेवायतनम् आकाशः प्रतिष्ठा; स्थितिरित्य् एनदुपासीत॥ कास्थितिता, याज्ञवल्क्य॥ हृदयमेव, सम्राड्, इति होवाच; हृदयं वै, सम्राट्, सर्वेषां भूतानामायतनँ; हृदयं वै, सम्राट्, सर्वेषां भूतानां प्रतिष्ठा, हृदये ह्य् एव, सम्राट्, सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति; हृदयं वै, सम्राट्, परमं ब्रह्म; नैनँ हृदयं जहाति, सर्वाण्य् एनं भूतान्यभिक्षरन्ति
देवोभूत्वादेवानप्येति, यएवं विद्वानेतदुपास्ते॥ हस्त्य्\. सहस्रं ददामीति होवाच जनकोवैदेहः॥ सहोवाच याज्ञवल्क्यः पितामेऽमन्यत नाननुशिष्य हरेतेति॥ कएवते किमब्रवीदिति . \`॥. 2 = 14.6.11?? =
अथ ह जनको वैदेहः कूर्चादुपावसर्पन्नुवाचः नमस् ते ॥ याज्ञवल्क्यानु मा शाधीति॥ सहोवाचः यथा वै, सम्राड्, महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्मासि एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतोविमुच्यमानः क्वगमिष्यसीति॥ नाहं तद् भगवन् वेद यत्र गमिष्यामीति॥ अथ वैतेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति॥ ब्रवीतु भगवानिति
सहोवाच . इन्धो ह वैनामैषयोऽयं दक्षिणेऽक्षन्पुरुषस्; तं वाएतमिन्धँ सन्तमिन्द्र इत्य् आचक्षते परोक्षेणैव; परोक्षप्रिया इव हिदेवाः प्रत्यक्षद्विषः
अथैतद्वामेऽक्षिणि . पुरुषरूपम् एषास्य पत्नी विराट्, तयोरेषसँस्तावोयएषोऽन्तर्हृदय आकाशो॥ अथैनयोरेतदन्नं यएषोऽन्तर्हृदये लोहितपिण्डो॥ अथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिवाथैनयोरेषासृतिः सती . संचरणी यैषाहृदयादूर्ध्वानाड्य् उच्चरति
तावाअस्यैताहितानाम नाड्योयथ केशः सहस्रधाभिन्न .\^ एताभिर्वाएतम् आस्रवदास्रवति; तस्मादेषप्रविविक्ताहारतर इव भवत्यस्माच्छारीरादात्मनः
तस्य वाएतस्य पुरुषस्य . ॥. प्राची दिक्प्राङ्चः प्राणा, दक्षिणा दिग्दक्षिणाः प्राणाः, प्रतीची दिक्प्रत्यङ्चः प्राणा, उदीची दिगुदङ्चः प्राणा, ऊर्ध्वादिगूर्ध्वाः प्राणा, अवाची दिगवाङ्चः प्राणाः, सर्वा दिशः सर्वे प्राणाः