अथ हैनमूषस्तश्चाक्रायणः पप्रच्छ॥ याज्ञवल्क्येति होवाच, यत्साक्षादपरोक्षाद्ब्रह्म यआत्मासर्वान्तरः तं मे व्याचक्ष्वेति॥ एषत आत्मासर्वान्तरः॥ कतमो, याज्ञवल्क्य, सर्वान्तरो॥ यः प्राणेन प्राणिति, सत आत्मासर्वान्तरो; योऽपानेनापानिति, सत आत्मासर्वान्तरो; योव्यानेन व्यनिति, सत आत्मासर्वान्तरो; यउदानेनोदनिति, सत आत्मासर्वान्तरो॥ यः समानेन समनिति, सत आत्मासर्वन्तर। . ॥. एषत आत्मासर्वान्तरः
सहोवाचोषस्तश्चाक्रायणोः यथा वैब्रूयादसौगौः असावश्व इति एवमेवैतद्व्यपदिष्टं भवति॥ यदेवसाक्षादपरोक्षाद्ब्रह्म यआत्मासर्वान्तरः तं मे व्याचक्ष्वेति॥ एषत आत्मासर्वान्तरः॥ कतमो, याज्ञवल्क्य, सर्वान्तरो॥ नदृष्टेर्द्रष्टारं पश्येः नश्रुतेः श्रोतारँ शृणुया; नमतेर्मन्तारं मन्वीथा, नविज्ञातेर्विज्ञातारं विजानीया॥ एषत आत्मासर्वान्तरो॥ अतोऽन्यदार्तं॥ ततो होषस्तश्चाक्रायण उपरराम॥ 6
अथ हैनं गार्गी वाचक्नवी पप्रच्छः याज्ञवल्क्येति होवाच, यदिदँ सर्वमप्स्वोतं च प्रोतं च, कस्मिन्नु आप ओताश्च प्रोताश्चेति॥ वायौ, गार्गीति॥ कस्मिन्नु वायुरोतश्च प्रोतश्चेति॥ आकाशएव गार्गीति॥ कस्मिन्न्वाकाश \` ओतश्च प्रोतश्चेति॥ अन्तरिक्षलोकेषु गार्गीति॥ कस्मिन्नुखल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति॥ द्यौर्लोकेषु, गार्गीति॥ कस्मिन्नुखलु द्यौर्लोकाओताश्च प्रोताश्चेत्य् . ॥. अदित्यलोकेषु, गार्गीति॥ कस्मिन्नुखल्वादित्यलोकाओताश्च प्रोताश्चेति॥ चन्द्रलोकेषु, गार्गीति॥ कस्मिन्नुखलु चन्द्रलोकाओताश्च प्रोताश्चेति॥ नक्षत्रलोकेषु, गार्गीति॥ कस्मिन्नुखलु नक्षत्रलोकाओताश्च प्रोताश्चेति॥ देवलोकेषु, गार्गीति॥ कस्मिन्नुखलु देवलोकाओताश्च प्रोताश्चेति॥ गन्धर्वलोकेषु गार्गीति॥ कस्मिन्नुखल्व् गन्धर्वलोका ओताश्च प्रोताश्चेति॥ प्रजापतिलोकेषु, गार्गीति॥ कस्मिन्नुखलु प्रजापतिलोकाओताश्च प्रोताश्चेति॥ ब्रह्मलोकेषु, गार्गीति॥ कस्मिन्नुखलु ब्रह्मलोकाओताश्च प्रोताश्चेति॥ सहोवाचः गार्गि, मातिप्राक्षीः माते मूर्धाव्यपप्तद् अनतिप्रश्न्यां वैदेवतामतिपृच्छसि॥ गार्गि, मातिप्राक्षीरिति॥ ततो ह गार्गी वाचक्नव्य् उपरराम॥ 7
अथैनमूद्दालक आरुणिः पप्रच्छः याज्ञवल्क्येति होवाच, मद्रेष्ववसाम पतङ्चलस्य काप्यस्य गृहेषु, यज्ञमधीयानाः॥ तस्यासीद्भार्यागन्धर्वगृहीता॥ तमपृच्छामः कोऽसीति॥ सोऽब्रवीत् कबन्ध अथर्वणइति
सोऽब्रवीत्पतङ्चलं काप्यं याज्ञिकाँश्चः वेत्थ नुत्वं, काप्य, तत्सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति॥ सोऽब्रवीत्पतङ्चलः काप्योः नाहं तद् भगवन् वेदेति
सोऽब्रवीत्पतङ्चलं काप्यं याज्ञिकाँश्चः वेत्थ नुत्वं, काप्य, तमन्तर्यामिणं, यइमं च लोकं परं च लोकँ सर्वाणि च भूतान्यन्तरो यमयतीति॥ सोऽब्रवीत्पतङ्चलः काप्योः नाहं तं, भगवन् वेदेति
सोऽब्रवीत्पतङ्चलं काप्यं याज्ञिकाँश्चः योवैतत् काप्य, सूत्रं विद्यात्तं चान्तर्यामिणँ, सब्रह्मवित् सलोकवित् सदेववित् सवेदवित् सयज्ञवित् . सभूतवित् सआत्मवित् ससर्वविदिति तेभ्योऽब्रवीत्॥ तदहं वेद॥ तच्चेत्त्वं, याज्ञवल्क्य, सूत्रमविद्वाँस् तं चान्तर्यामिणं ब्रह्मगवीरुदजसे, मूर्धाते विपतिष्यतीति
वेद वाअहं, गौतम, तत्सूत्रं तं चान्तर्यामिणमिति॥ योवाइदं कश्च ब्रूयाद् वेद वेदेति॥ यथा वेत्थ, तथा ब्रूहीति
वायुर्वै, गौतम, तत्सूत्रं; वायुना वै, गौतम, सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति॥ तस्माद्वै, गौतम, पुरुषं प्रेतमाहुः व्यस्रँसिषतास्याङ्गानीति; वायुना हि, गौतम, सूत्रेण सम्दृब्धानि भवन्तीति॥ एवमेवैतद् . याज्ञवल्क्यान्तर्यामिणं ब्रूहीति
यः पृथिव्यां तिष्ठन्पृथिव्याअन्तरो, यं पृथिवीनवेद, यस्य पृथिवीशरीरं, यः पृथिवीमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
योऽप्सुतिष्ठन्नद्भ्योऽन्तरो, यमापो नविदुः यस्यापः शरीरं, योऽपोऽन्तरो यमयति स त आत्मान्तर्याम्यमृतः
योऽग्नौतिष्ठन्नग्नेरन्तरो, यमग्निर्नवेद, यस्याग्निः शरीरं, योऽग्निमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो, यमन्तरिक्षं नवेद, यस्यान्तरिक्षँ शरीरं, योऽन्तरिक्षमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
योवायौतिष्ठन्वायोरन्तरो, यं वायुर्नवेद, यस्य वायुः शरीरं, योवायुमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
. यो दिवि तिष्ठन्दिवोऽन्तरो, यं द्यौर्न वेद, यस्य द्यौः शरीरं, यो दिवमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः
यआदित्येतिष्ठन्नादित्यादन्तरो, यमादित्योनवेद, यस्यादित्यः शरीरं, यआदित्यमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
यश्चन्द्रतारकेतिष्ठङ्चन्द्रतारकादन्तरो, यं चन्द्रतारकं नवेद, यस्य चन्द्रतारकँ शरीरं, यश्चन्द्रतारकमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
. य आकाशे तिष्ठन्नाकाशादन्तरो, यमाकाशो न वेद, यस्याकाशः शरीरं, य आकाशमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः
योदिक्षुतिष्ठन्दिग्भ्योऽन्तरो, यं दिशो नविदुः यस्य दिशः शरीरं, योदिशोऽन्तरो यमयति, स त आत्मान्तर्याम्यमृतः॥ 15/ ॥ योविद्युति तिष्ठन्विद्युतोऽन्तरो, यं विद्युन्नवेद, यस्य विद्युच्छरीरं, योविद्युतोऽन्तरो यमयति, सत आत्मान्तर्याम्यमृतः॥ 16/ ॥ योस्तनयित्नौतिष्ठन्स्तनयित्नोरन्तरो, यँ स्तनयित्नुर्नवेद, यस्य स्तनयित्नुः शरीरं, योस्तनयित्नोरन्तरो यमयति, सत आत्मान्तर्याम्यमृतः॥ 17/ ॥ योसर्वेषु लोकेषु तिष्ठन्सर्वेभ्यो लोकेभ्योऽन्तरो, यँ सर्वे लोकानविदुः यस्य सर्वे लोकाः शरीरं, योसर्वेभ्यो लोकेभ्योऽन्तरो यमयति, सत आत्मान्तर्याम्यमृतः॥ 18/ ॥ योसर्वेषु वेदेषु तिष्ठन्सर्वेभ्यो वेदेष्वन्तरो, यँ सर्वे वेदा नविदुः यस्य सर्वे वेदाः शरीरं, योसर्वेभ्यो वेदेभ्योऽन्तरो यमयति, सत आत्मान्तर्याम्यमृतः॥ 19/ ॥ योसर्वेषु यज्ञेषु तिष्ठन्सर्वेभ्यो यज्ञेभ्योऽन्तरो, यँ सर्वे यज्ञानविदुः यस्य सर्वे यज्ञाः शरीरं, योसर्वेभ्यो यज्ञेभ्योऽन्तरो यमयति, सत आत्मान्तर्याम्यमृतः
यः सर्वेषु भूतेषु तिष्ठन्त्सर्वेभ्यो भूतेभ्योऽन्तरो, यँ सर्वाणि भूतानि नविदुः यस्य सर्वाणि भुतानि शरीरं, यः सर्वाणि भूतान्यन्तरो यमयति, स त आत्मान्तर्याम्यमृत॥ इत्य् उ एवाधिभूतम् . अथाध्यात्मम्
यः प्राणेतिष्ठन्प्राणादन्तरो, यं प्राणोनवेद, यस्य प्राणः शरीरं, यः प्राणमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
योवाचितिष्ठन्वाचोऽन्तरो, यं वाङ् नवेद, यस्य वाक्षरीरं, योवाचमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
यश्चक्षुषि तिष्ठङ्चक्षुषोऽन्तरो, यं चक्षुर्नवेद, यस्य चक्षुः शरीरं, यश्चक्षुरन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
यः श्रोत्रे तिष्ठङ्छ्रोत्रादन्तरो, यँ श्रोत्रं नवेद, यस्य श्रोत्रँ शरीरं, यः श्रोत्रमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
योमनसि तिष्ठन्मनसोऽन्तरो, यं मनो नवेद, यस्य मनः शरीरं, योमनोऽन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
यस् त्वचि तिष्ठँस् त्वचोऽन्तरो, यं त्वङ् नवेद, यस्य त्वक्षरीरं, यस् त्वचमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
. यो विज्ञाने तिष्ठन्विज्ञानादन्तरो, यं विज्ञानं न वेद, यस्य विज्ञानँ शरीरं, यो विज्ञानमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः
यस् तेजसि तिष्ठँस् तेजसोऽन्तरो, यं तेजो नवेद, यस्य तेजः शरीरं, यस् तेजोऽन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
यस् तमसि तिष्ठँस् तमसोऽन्तरो, यं तमो नवेद, यस्य तमः शरीरं, यस् तमोऽन्तरो यमयति, स त आत्मान्तर्याम्यमृतः
योरेतसि तिष्ठँ रेतसोऽन्तरो, यं रेतो नवेद, यस्य रेतः शरीरं, योरेतोऽन्तरो यमयति, स त आत्मान्तर्याम्यमृतः॥ 30/ ॥ यआत्मनि तिष्ठन्नात्मनोऽन्तरो, यमात्मानवेद, यस्यात्माशरीरं, यआत्मान्तरो यमयति, सत आत्मान्तर्याम्यमृतः