अयमग्निः सर्वेषां भूतानां मधु अस्याग्नेः सर्वाणि भूतानि मधु; यश्चायमस्मिन्नग्नौतेजोमयोऽमृतमयः पुरुषो, यश्चायमध्यात्मं वाङ्मयस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्म, इदँ सर्वम्
अयमाकाशः सर्वेषां भूतानां मधु अस्याकाशस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन्नाकाशेतेजोमयोऽमृतमयः पुरुषो, यश्चायमध्यात्मँ हृद्य् आकाशस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्मेदँ सर्वम्
अयं वायुः सर्वेषां भूतानां मधु अस्य वायोः सर्वाणि भूतानि मधु; यश्चायमस्मिन्वायौतेजोमयोऽमृतमयः पुरुषो, यश्चायमध्यात्मं प्राणस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदं अमृतम् इदं ब्रह्मेदँ सर्वम्
अयमादित्यः सर्वेषां भूतानां मधु अस्यादित्यस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन्नादित्येतेजोमयोऽमृतमयः पुरुषो, यश्चायमध्यात्मं चाक्षुषस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्मेदँ सर्वम्
अयं चन्द्रः सर्वेषां भूतानां मधु अस्य चन्द्रस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन्चन्द्रेतेजोमयोऽमृतमयः पुरुषो, यश्चायमध्यात्मं मानसस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्मेदँ सर्वम्
इमादिशः सर्वेषां भूतानां मधु आसां दिशाँ सर्वाणि भूतानि मधु; यश्चायमासुदिक्षुतेजोमयोऽमृतमयः पुरुषो, यश्चायमध्यात्मँ श्रौत्रः प्रातिश्रुत्कस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्मेदँ सर्वम्
इयं विद्युत्सर्वेषां भूतानं मधु अस्यैविद्युतः सर्वाणि भूतानि मधु; यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो, यश्चायमध्यात्मं तैजसस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्मेदँ सर्वम्
अयँ स्तनयित्नुः सर्वेषां भुतानां मधु अस्य स्तनयित्नोः सर्वाणि भूतानि मधु; यश्चायमस्मिन्त्स्तनयित्नौतेजोमयोऽमृतमयः पुरुषो, यश्चायमध्यात्मँ शाब्दः सौवरस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्मेदँ सर्वम्
अयं धर्मः सर्वेषां भूतानां मधु अस्य धर्मस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन्धर्मेतेजोमयोऽमृतमयः पुरुषो, यश्चायमध्यात्मं धार्मस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्मेदँ सर्वम्
इदँ सत्यँ सर्वेषां भूतानां मधु अस्य सत्यस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन्त्सत्येतेजोमयोऽमृतमयः पुरुषो, यश्चायमध्यात्मँ सात्यस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्मेदँ सर्वम्
इदं मानुषँ सर्वेषां भूतानां मधु अस्य मानुषस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन्मानुषेतेजोमयोऽमृतमयः पुरुषो, यश्चायमध्यात्मं मानुषस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्मेदँ सर्वम्
अयमात्मासर्वेषां भूतानां मधु अस्यात्मनः सर्वाणि भूतानि मधु; यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो, यश्चायमात्मातेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्मेदँ सर्वम्
सवाअयमात्मासर्वेषां अधिपतिः, सर्वेषां भूतानाँ राजा॥ तद्यथा रथनाभौच रथनेमौचाराः सर्वे समर्पिता, एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एतआत्मानः समर्पिताः
इदं वैतन्मधु डध्यङ्ङ् अथर्वणोऽश्विभ्यामुवाच॥ तदेतदृषिः पश्यन्नवोचत् 1.116.12: तद्वां, नरा, सनये दँस उग्रम् आविष् कृणोमि, तन्यतुर्नवृष्टिं, डध्यङ् ह यन्मध्व् अथर्वणोवाम् अश्वस्य शीर्ष्णाप्रयदीमुवाचेति
इदं वैतन्मधु डध्यङ्ङ् अथर्वणोऽश्विभ्यामुवाच॥ तदेतदृषिः पश्यन्नवोचत् 1.117.22: अथर्वणायाश्विना डधीचेऽश्व्यँ शिरः प्रत्यैरयतं; सवां मधु प्रवोचदृतायन् त्वाष्ट्रं यद् दस्राउ अपिकक्ष्यं वामिति
इदं वैतन्मधु डध्यङ्ङ् अथर्वणोऽश्विभ्यामुवाच॥ तदेतदृषिः पश्यन्नवोचत् पुरश्चक्रे द्विपदः, पुरश्चक्रे चतुष्पदः; पुरः स, पक्षीभुत्वा, पुरः पुरुष आविशदिति॥ सवाअयं पुरुषः सर्वासु पूर्षुपुरिशयो; नैनेन किं चनानावृतं, नैनेन किं चनासम्वृतम्
इदं वैतन्मधु डध्यङ्ङ् अथर्वणोऽश्विभ्यामुवाच॥ तदेतदृषिः पश्यन्नवोचत् 6.47.18: रूपँ-रूपं प्रतिरूपो बभूव, तदस्य रूपं प्रतिचक्षणाये- -न्द्रो मायाभिः पुरुरूप ईयते, युक्ताह्यस्य हरयः शतादशेति॥ अयं वैहरयो, अयं वैदश च सहस्रणि बहूनि चानन्तानि च॥ तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् अयमात्माब्रह्म सर्वानुभूः॥ इत्यनुशासनम्॥ [पनुस्तुब्] 20 5,20-22 6; अथ वँशः॥ तदिदं वयँ हौर्पणाय्याच्, छौर्पणय्यो गौतमाद् गौतमो वत्स्याद् वत्स्यो वात्स्याच्च पाराशर्याच्च, पाराशर्यः षांक्त्याच्च भारद्वाजाच्च, भारद्वाज औदावहेश्च हाण्डिल्याच्च, हाण्डिल्यो वैजवापाच्च गौतमाच्च, गौतमो वैजवापायनाच्च वैष्टपुरेयाच्च, वैष्टपुरेयः हाण्डिल्याच्च ऱौहिणायनाच्च, ऱौहिणायनः हौनकाच्चात्रेयाच्च ऱैभ्याच्च, ऱैभ्यः पौतिमाष्यायणाच्च कौण्डिन्यायनाच्च, कौण्डिन्यायनः कौण्डिन्यात् कौण्डिन्यः कौण्डिन्यात् कौण्डिन्यः कौण्डिन्याच्चाग्निवेश्याच्च, 21 5,20-22 6; अग्निवेश्यः षौतवात् षौतवः पाराशर्यात् पाराशर्यः जातुकर्ण्यात् जातुकर्ण्यो भारद्वाजाद् भारद्वाजो भारद्वाजाच्चासुरायणाच्च गौतमाच्च, गौतमो भारद्वाजाद् भारद्वाजो वैजवापायनाच्, वैजवापायनः कशिकायनेः, कशिकायनिर्घृतकौशिकाद् घृतकौशिकः पाराशर्यात् पाराशर्यः पाराशर्यात् पाराशर्यः जातुकर्ण्यात् जातुकर्ण्यो भारद्वाजाद् भारद्वाजो भारद्वाजाच्चासुरायणाच्यस्काच्च, असुरायणस् ट्रैवणेः ट्रैवणिराउपजन्धनेः आउपजन्धनिःअसुरेः असुरिर्भारद्वाजाद् भारद्वाजो अत्रेयात् 22 5,20-22 6; अत्रेयोमाण्टेः, माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो वात्स्याद् वात्स्यः हाण्डिल्याच्, छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः काप्यः कुमारहरितात् कुमारहरितोगालवाद् गालवोविदर्भीकौण्डिन्याद् विदर्भीकौण्डिन्योबाभवाद्वत्सनपाद् बाभवः पथः षौभरात् पन्थाः षौभरोऽयास्यादङ्गिरसाद् आयास्यो अङ्गिरसऽभुतेस् ट्वाष्ट्राद् अभुतिः ट्वाष्ट्रो विश्वरूपाद्ट्वाष्ट्राद् विश्वरूपस् ट्वाष्ट्रोऽश्विभ्याम् आश्विनौ डधिच अथर्वनाद् डध्यङ्ङ् अथर्वनोऽथर्वनो डैवाद् अथर्वा डैव मृत्योः प्राद्धँसनान् मृत्युः प्राद्धँसनः षनगात् षनगः परेष्टिणः परेष्टीब्रह्मनो ब्रह्म स्वयंभु, ब्रह्मणे नमः
अथ वँशः पशुतिमाष्यो गौपवनाद् गौपवनः पशुतिमाष्यात् पशुतिमाष्यो गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यः हाण्डिल्यात् हाण्डिल्यः कौशिकाच्च गौतमाच्च, गौतमो
अग्निवेश्याद् अग्निवेश्यः हाण्डिल्याच्चानभिम्लाताच्च, अनभिम्लात अनभिम्लाताद् अनभिम्लात अनभिम्लाताद् अनभिम्लातो गौतमाद् गौतमः षैतवप्राचीनयोग्याभ्याँ, षैतवप्राचीनयोग्यौ पाराशर्यात् पाराशर्यो भारद्वाजाद् भारद्वाजो भारद्वाजाच्च गौतमाच्च, गौतमो भारद्वाजाद् भारद्वाजः पाराशर्यात् पाराशर्यो वैजवापायनाद् वैजवापायनः कौशिकायनेः, कौशिकायनिर्
घृतकौशिकाद् घृतकौशिकः प्राशर्यायणात् पारशर्यायणः पाराशर्यात् पाराशर्यो जातूकर्ण्यात् जातूकर्ण्य असुरायणाच्च यास्काच्च, असुरायणस् ट्रैवणेः, ट्रैवणिरौपजन्धनेः, औपजन्धनिरसुरेः, असुरिर्भारद्वाजाद् भारद्वाज अत्रेयाद् अत्रेयो माण्टेः, माण्टिर्गौतमाद् गौतमो वात्स्याद् वात्स्यः हाण्डिल्याच्, छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः काप्यः कुमारहारितात् कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद् विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद् वत्सनपाद्बाभ्रवः पथः षौभरात् पन्थाः षौभरोऽयास्यादङ्गिरसाद् आयास्य अङ्गिरस अभूतेस् ट्वाष्ट्राद् अभूतिस् ट्वाष्ट्रो विश्वरूपात्ट्वाष्ट्राद् विश्वरूपस् ट्वाष्ट्रोऽव्शिभ्याम् आश्विनौ डधीच अथर्वणाद् डध्यङ्ङ् अथर्वणोऽथर्वणो डैवाद् आथर्वा डैवो मृत्योः प्राध्वँसनान् मृत्युः प्राध्वँसनः प्रध्वँसनात् प्रध्वँसन एकर्षेः एकर्षिर्विप्रचित्तेः विप्रचित्तिर्व्यष्टेः व्यष्टिः षनारोः, षनारुः षनातनात् षनातनः षनगात् षनगः परमेष्ठिनः, परमेष्ठी ब्रह्मणो; ब्रह्म स्वयंभु, ब्रह्मणे नमः॥ [प्नोर्मल्] 3 = 14.6. =
जनकोह वैदेहो बहुदक्षिणेन यज्ञेनेजे॥ तत्र ह कुरुपङ्चालानां ब्राह्मणाअभिसमेता बभूवुः॥ तस्य ह जनकस्य वैदेहस्य विजिज्ञासा . 2, 142[16] +\` बभूवः कः स्विदेषां ब्राह्मणानामनूचानतम इति
सह गवाँ सहस्रमवरुरोध; दश-दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः
तान्होवाचः ब्राह्मणा भगवन्तो, योवो ब्रह्मिष्ठः, सएतागाउदजतामिति॥ तेह ब्राह्मणानदधृषुः
अथ ह याज्ञवल्क्यः स्वमेवब्रह्मचारिणमुवाचैताः, सौम्योदज, षामश्रवा३ इति॥ ताहोदाचकार॥ तेह ब्राह्मणाश्चुक्रुधुः कथं नुनो ब्रह्मिष्ठो ब्रुवीतेति
अथ ह जनकस्य वैदेहस्य होताश्वलोबभूव॥ सहैनं पप्रच्छः त्वं नुखलु नो, याज्ञवल्क्य, ब्रह्मिष्ठोऽसी३ इति॥ सहोवाचः नमो वयं ब्रह्मिष्ठाय कुर्मो; गोकामा एववयँ स्म इति॥ तँ ह तत एवप्रष्टुं दध्रे होताश्वलः
याज्ञवल्क्येति होवाच, यदिदँ सर्वं मृत्युनाप्तँ, सर्वं मृत्युनाभिपन्नं, केन यजमानो मृत्योराप्तिमतिमुच्यत इति॥ होत्रर्त्विजाग्निना वाचा; वाग्वैयज्ञस्य होता॥ तद्येयं वाक्सोऽयमग्निः सहोता सामुक्तिः सातिमुक्तिः
याज्ञवल्क्येति होवाच, यदिदँ सर्वमहोरात्राभ्यामाप्तँ, सर्वमहोरात्राभ्यामभिपन्नं, केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इति॥ अध्वर्युणर्त्विजा चक्षुषादित्येन; चक्षुर्वैयज्ञस्याध्वर्युः॥ तद्यदिदं चक्षुः, सोऽसावादित्यः; सोऽध्वर्युः सामुक्तिः सातिमुक्तिः
याज्ञवल्क्येति होवाच, यदिदँ सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तँ, सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं, केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति॥ ब्रह्मणर्त्विजा मनसा चन्द्रेण; मनो वैयज्ञस्य ब्रह्मा॥ तद्यदिदं मनः, सोऽसौचन्द्रः सब्रह्मासामुक्तिः सातिमुक्तिः
याज्ञवल्क्येति होवाच, यदिदमन्तरिक्षमनारम्बणमिव; केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति॥ उद्गात्रर्त्विजा वयुना प्राणेन; प्राणोवैयज्ञस्योद्गाता॥ तद्योऽयं प्राणः सवायुः सउद्गातासामुक्तिः सातिमुक्तिः॥ इत्यतिमोक्षा, अथ संपदः
याज्ञवल्क्येति होवाच, कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञेकरिष्यतीति॥ तिसृभिरिति॥ कतमास् तास् तिस्र इति॥ पुरोनुवाक्याच याज्याच शस्यैवतृतीया॥ किं ताभिर्जयतीति॥ पृथिवीलोकमेवपुरोनुवाक्यया जयति अन्तरिक्षलोकं याज्यया, द्यौर्लोकँ शस्यया