इमावेवगोतमभरद्वाजाउ अयमेवगोतमो, अयं भरद्वाज॥ इमावेवविश्वामित्रजमदग्नीः अयमेवविश्वामित्रो, अयं जमदग्निः॥ इमावेववसिष्ठकश्यपाउ अयमेववसिष्ठो, अयं कश्यपो॥ वागेवात्रिः वाचाह्यन्नमद्यते, अत्तिर्ह वैनामैतद्यदत्रिरिति॥ सर्वस्यात्ताभवति, सर्वमस्यान्नं भवति, यएवं वेद॥ 3
द्वेवावब्रह्मणो रूपेः मूर्तं चैवामूर्तं च, मर्त्यं चामृतं च, स्थितं च यच्च, सच्च त्यं च
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यम् एतत्स्थितम् एतत्सत्
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सतएषरसो यएषतपति; सतोह्य् एषरसः
अथामूर्तं वायुश्चान्तरिक्षश्चैतदमृतम् एतद्यद् एतत्त्यम्
तस्यैतस्यामूर्तस्य, तस्यामृतस्यैतस्य यत, एतस्य त्यस्यैषरसो यएषएतस्मिन्मण्डले पुरुषस्; त्यस्य ह्य् एषरस॥ इत्यधिदेवतम्
अथाध्यात्मम्॥ इदमेवमूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाशः एतन्मर्त्यम् एतत्स्थितम् एतत्सत्
तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सतएषरसो यच्चक्षुः; सतह्य् एषरसः
अथामूर्तम् प्राणश्च यश्चायमन्तरात्मन्नाकाश, एतदमृतम् एतद्यद् एतत्त्यं
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत, एतस्य त्यस्यैषरसो योऽयं दक्षिणेऽक्षन्पुरुषस्; त्यस्य ह्य् एषरसः
तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो, यथा पाण्ड्वाविकं, यथेन्द्रगोपो, यथाग्न्यर्चिः यथा पुण्डरीकं, यथा सकृद्विद्युत्तँ॥ सकृद्विद्युत्तेव ह वाअस्य श्रीर्भवति, यएवं वेद
अथात आदेशः नेति नेति, नह्य् एतस्मादिति नेत्यन्यत्परमस्ति॥ अथ नामधेयँ सत्यस्य सत्यमितिः प्राणावैसत्यं, तेषामेषसत्यम्॥ 4
मैत्रेयीति होवाच याज्ञवल्क्य, उद्यास्यन्वाअरेऽहमस्मात्स्थानादस्मि॥ हन्त तेऽनया कात्यायन्यान्तं करवाणीति
साहोवाच मैत्रेयीः यन्म इयं, भगोः, सर्वा पृथिवीवित्तेन पूर्णास्यात् कथं तेनामृता स्यामिति॥ नेति होवाच याज्ञवल्क्यो; यथैवोपकरणवतां जीवितं, तथैवते जीवितँ स्याद्; अमृतत्वस्य तुनाशास्ति वित्तेनेति
साहोवाच मैत्रेयीः येनाहं नामृता स्यां, किमहं तेन कुर्यां॥ यदेवभगवान्वेद, तदेवमे ब्रूहीति
सहोवाच याज्ञवल्क्यः प्रियावतारे नः सतीप्रियं भाषस॥ एहि आस्व व्याख्यास्यामि ते॥ व्याचक्षाणस्य तुमे निदिध्यासस्वेति॥ ब्रवितु भगवानिति . ॥.
सहोवाच याज्ञवल्क्यो ==संबंधित कड़ियाँ== #[[उपनिषद्]] ##[[बृहदारण्यक उपनिषद्]] ###[[बृहदारण्यक उपनिषद् 1]] ###[[बृहदारण्यक उपनिषद् 2]] ###[[बृहदारण्यक उपनिषद् 3]] ###[[बृहदारण्यक उपनिषद् 4]] ###[[बृहदारण्यक उपनिषद् 5]] ==बाहरी कडियाँ== [[वर्गः:]] [[वर्गः:]]
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद; क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद; लोकास् तं परादुर्योऽन्यत्रात्मनो लोकान्वेद; देवास् तं परादुर्योऽन्यत्रात्मनो देवान्वेद; भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद; सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्रम् इमेलोका, इमेदेवा, इमानि भूतानीदँ सर्वं, यदयमात्मा
सयथा दुन्दुभेर्हन्यमानस्य नबाह्याङ्छब्दाङ्छक्नुयाद्ग्रहणाय, दुन्दुभेस् तुग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः;
सयथा वीणायै वाद्यमानायै नबाह्याङ्छब्दाङ्छक्नुयाद्ग्रहणाय, वीणायै तुग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः;
सयथा शङ्खस्य ध्मायमानस्य नबाह्याङ्छब्दाङ्छक्नुयाद्ग्रहणाय, शङ्खस्य तुग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः;
सयथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमाविनिश्चरन्ति एववाअरेऽस्य महतोभूतस्य निश्वसितम् एतद्यदृग्वेदोयजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्याउपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननि अस्यैवैतानि सर्वाणि निश्वसितानि
सयथा सर्वासामपाँ समुद्रएकायनम् एवँ सर्वेषाँ स्पर्शानां त्वगेकायनम् एवँ सर्वेषां गन्धानां नासिके एकायनम् एवँ सर्वेषाँ रसानां जिह्वैकायनम् एवँ सर्वेषाँ रूपाणां चक्षुरेकायनम् एवँ सर्वेषँ शब्दानाँ श्रोत्रमेकायनम् एवँ सर्वेषाँ सङ्कल्पानां मन एकायनम् एवँ सर्वेषां वेदानां वागेकायनम् एवँ सर्वेषां कर्मणाँ हस्तावेकायनम् एवँ सर्वेषामध्वनां पादावेकायनम् एवँ सर्वेषामानन्दानामुपस्थ एकायनम् एवँ सर्वेषां विसर्गाणां पायुरेकायनम् एवँ सर्वासां विद्यानाँ हृदयमेकायनम्
सयथा सैन्धवखिल्यउदकेप्रास्त उदकमेवानुविलीयेत, नाहास्योद्ग्रहणायैव स्याद् यतो-यतस् त्वाददीत लवणमेवैवं वाअर इदं महद्भूतमनन्तमपारं विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय, तान्य् एवानुविनश्यति; नप्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः
साहोवाच मैत्रेयि अत्रैवमा भगवानमूमुहद् नप्रेत्य संज्ञास्तीति
सहोवाच याज्ञवल्क्यो . नवाअरेऽहं मोहं ब्रवीमि अलं वाअर इदं विज्ञानाय
यत्र हिद्वैतमिव भवति, तदितर इतरं जिघ्रति, तदितर इतरं पश्यति तदितर इतरँ शृणोति, तदितर इतरमभिवदति, तदितर इतरं मनुते, तदितर इतरं विजानाति
यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् तत्केन कं जिघ्रेत् तत्केन कँ शृणुयात् तत्केन कमभिवदेत् तत्केन कं मन्वीत, तत्केन कं विजानीयाद्॥ येनेदँ सर्वं विजानाति, तं केन विजानीयाद् विज्ञातारमरे केन विजानीयादिति॥ 5
इयं पृथिवीसर्वेषां भूतानां मधु अस्यैपृथिव्यैसर्वाणि भूतानि मधु; यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो, यस् चायमध्यात्मँ शारीरस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्म, इदँ सर्वम्
इमाआपः सर्वेषां भूतानां मधु आसामपाँ सर्वाणि भूतानि मधु; यश्चायमास्वप्सुतेजोमयोऽमृतमयः पुरुषो, यश्चायमध्यात्मँ रैतसस् तेजोमयोऽमृतमयः पुरुषो, अयमेवसयोऽयमात्मेदममृतम् इदं ब्रह्म, इदँ सर्वम्