सयथा महाराजोजानपदान्गृहीत्वास्वेजनपदेयथाकामं परिवर्तेतैवमेवैषएतत्प्राणान्गृहीत्वास्वेशरीरे यथाकामं परिवर्तते
अथ यदासुषुप्तो भवति, यदानकस्य चनवेद, हितानाम नाद्योद्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते !॥ ताभिः प्रत्यवसृप्य पुरीतति शेते
स . यथा कुमारो . वा महाब्राह्मणोवातिघ्नीमानन्दस्य गत्वाशयीतैवमेवैषएतच्छेते
सयथोर्णवाभिस् तन्तुनोच्चरेद् यथा अग्नेः क्षुद्राविष्फुलिङ्गा व्युच्चरन्ति एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एतआत्मनो . ॥. व्युच्चरन्ति॥ तस्योपनिषत्सत्यस्य सत्यमितिः प्राणावैसत्यं, तेषामेषसत्यम्॥ 2
योह वैशिशुँ साधानँ सप्रत्याधानँ सस्थूणँ सदामं वेद, सप्तह द्विषतोभ्रातृव्यानवरुणद्धि
अयं वावशिशुर्योऽयं मध्यमः प्राणस्; तस्येदमेवाधानम् इदं प्रत्याधानं, प्राणः स्थूणान्नं दाम
तमेताः सप्ताक्षितय उपतिष्ठन्तेः
तद्याइमाअक्षँल् लोहिन्यो राजयः ताभिरेनँ ऱुद्रोऽन्वायत्तो; अथ याअक्षन्नापः ताभिः पर्जन्यो; याकनीनका, तयादित्यो; यच्छुक्लं \^ तेनाग्निः यच्कृष्णं तेनेन्द्रो॥ अधरयैनं वर्तन्यापृथिव्यन्वायत्ता, द्यौरुत्तरया॥ नास्यान्नं क्षीयते, यएवं वेद
तदेषश्लोको भवति अर्वाग्बिलश्चमसऊर्ध्वबुध्नस्; तस्मिन्यशो निहितं विश्वरूपं॥ तस्यासत ऋषयः सप्ततीरे; वागष्टमीब्रह्मणा संविदानेति
अर्वाग्बिलश्चमसऊर्ध्वबुध्न इतीदं तच्छरीर, एषह्यर्वाग्बिलश्चमसऊर्ध्वबुध्नः॥ तस्मिन्यशो निहितं विश्वरूपमिति, प्राणावैयशो निहितं विश्वरूपं, प्राणानेतदाह॥ तस्यासत ऋषयः सप्ततीर इति, प्राणावाऋषयः, प्राणाणेतदाह॥ वागष्टमीब्रह्मणा संविदानेति, वाग्घ्यष्टमीब्रह्मणा संवित्ते
इमावेवगोतमभरद्वाजाउ अयमेवगोतमो, अयं भरद्वाज॥ इमावेवविश्वामित्रजमदग्नीः अयमेवविश्वामित्रो, अयं जमदग्निः॥ इमावेववसिष्ठकश्यपाउ अयमेववसिष्ठो, अयं कश्यपो॥ वागेवात्रिः वाचाह्यन्नमद्यते, अत्तिर्ह वैनामैतद्यदत्रिरिति॥ सर्वस्यात्ताभवति, सर्वमस्यान्नं भवति, यएवं वेद॥ 3
द्वेवावब्रह्मणो रूपेः मूर्तं चैवामूर्तं च, मर्त्यं चामृतं च, स्थितं च यच्च, सच्च त्यं च
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यम् एतत्स्थितम् एतत्सत्
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सतएषरसो यएषतपति; सतोह्य् एषरसः
अथामूर्तं वायुश्चान्तरिक्षश्चैतदमृतम् एतद्यद् एतत्त्यम्
तस्यैतस्यामूर्तस्य, तस्यामृतस्यैतस्य यत, एतस्य त्यस्यैषरसो यएषएतस्मिन्मण्डले पुरुषस्; त्यस्य ह्य् एषरस॥ इत्यधिदेवतम्
अथाध्यात्मम्॥ इदमेवमूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाशः एतन्मर्त्यम् एतत्स्थितम् एतत्सत्
तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सतएषरसो यच्चक्षुः; सतह्य् एषरसः
अथामूर्तम् प्राणश्च यश्चायमन्तरात्मन्नाकाश, एतदमृतम् एतद्यद् एतत्त्यं
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत, एतस्य त्यस्यैषरसो योऽयं दक्षिणेऽक्षन्पुरुषस्; त्यस्य ह्य् एषरसः
तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो, यथा पाण्ड्वाविकं, यथेन्द्रगोपो, यथाग्न्यर्चिः यथा पुण्डरीकं, यथा सकृद्विद्युत्तँ॥ सकृद्विद्युत्तेव ह वाअस्य श्रीर्भवति, यएवं वेद
अथात आदेशः नेति नेति, नह्य् एतस्मादिति नेत्यन्यत्परमस्ति॥ अथ नामधेयँ सत्यस्य सत्यमितिः प्राणावैसत्यं, तेषामेषसत्यम्॥ 4
मैत्रेयीति होवाच याज्ञवल्क्य, उद्यास्यन्वाअरेऽहमस्मात्स्थानादस्मि॥ हन्त तेऽनया कात्यायन्यान्तं करवाणीति
साहोवाच मैत्रेयीः यन्म इयं, भगोः, सर्वा पृथिवीवित्तेन पूर्णास्यात् कथं तेनामृता स्यामिति॥ नेति होवाच याज्ञवल्क्यो; यथैवोपकरणवतां जीवितं, तथैवते जीवितँ स्याद्; अमृतत्वस्य तुनाशास्ति वित्तेनेति
साहोवाच मैत्रेयीः येनाहं नामृता स्यां, किमहं तेन कुर्यां॥ यदेवभगवान्वेद, तदेवमे ब्रूहीति
सहोवाच याज्ञवल्क्यः प्रियावतारे नः सतीप्रियं भाषस॥ एहि आस्व व्याख्यास्यामि ते॥ व्याचक्षाणस्य तुमे निदिध्यासस्वेति॥ ब्रवितु भगवानिति . ॥.
सहोवाच याज्ञवल्क्यो ==संबंधित कड़ियाँ== #[[उपनिषद्]] ##[[बृहदारण्यक उपनिषद्]] ###[[बृहदारण्यक उपनिषद् 1]] ###[[बृहदारण्यक उपनिषद् 2]] ###[[बृहदारण्यक उपनिषद् 3]] ###[[बृहदारण्यक उपनिषद् 4]] ###[[बृहदारण्यक उपनिषद् 5]] ==बाहरी कडियाँ== [[वर्गः:]] [[वर्गः:]]
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद; क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद; लोकास् तं परादुर्योऽन्यत्रात्मनो लोकान्वेद; देवास् तं परादुर्योऽन्यत्रात्मनो देवान्वेद; भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद; सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्रम् इमेलोका, इमेदेवा, इमानि भूतानीदँ सर्वं, यदयमात्मा
सयथा दुन्दुभेर्हन्यमानस्य नबाह्याङ्छब्दाङ्छक्नुयाद्ग्रहणाय, दुन्दुभेस् तुग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः;
सयथा वीणायै वाद्यमानायै नबाह्याङ्छब्दाङ्छक्नुयाद्ग्रहणाय, वीणायै तुग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः;