पृथिव्यैचैनमग्नेश्च दैवी वागाविशति॥ सावैदैवी वाग्यया, यद्-यदेववदति, तत्-तद्भवति
दिवश्चैनमादित्याच्च दैवं मन आविशति॥ तद्वैदैवं मनो येनानन्द्य् एवभवति अथो नशोचति
अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राणआविशति॥ सवैदैवः प्राणोयः संचरँश्चासंचरँश्च नव्यथते, अथो नरिष्यति॥ सएषएवंवित्सर्वेषां भूतानामात्माभवति॥ यथैषादेवतैवँ स॥ यथैतां देवताँ सर्वाणि भूतान्यवन्ति एवँ हैवंविदँ सर्वाणि भूतान्यवन्ति॥ यदु किङ्चेमाः प्रजाः शोचन्ति अमैवासां तद्भवति, पुण्यमेवामुं गच्छति, नह वैदेवान्पापं गच्छति
अथातो व्रतमीमाँसा॥ प्रजापतिर्ह कर्माणि ससृजे॥ तानि सृष्टान्यन्योऽन्येनास्पर्धन्तः वदिष्याम्य् एवाहमिति वाग्दध्रे; द्रक्ष्याम्यहमिति चक्षुः; श्रोष्याम्यहमिति श्रोत्रम्; एवमन्यानि कर्माणि यथाकर्मम्
तानि मृत्युः श्रमो भूत्वोपयेमे, तान्य् आप्नोत्; तान्य् आप्त्वामृत्युरवारुन्द्ध॥ तस्माच्छ्राम्यत्य् एववाक् श्राम्यति चक्षुः, श्राम्यति श्रोत्रम्॥ अथेममेवनाप्नोद् योऽयं मध्यमः प्राणः
तानि ज्ञातुं दध्रिरेः अयं वैनः श्रेष्ठो यः संचरंश्चासंचरंश्च नव्यथते, अथो नरिष्यति॥ हन्तास्यैवसर्वे रूपं भवामेति॥ तएतस्यैवसर्वे रूपमभवनः॥ तस्मादेतएतेनाख्यायन्ते प्राणाइति॥ तेन ह वावतत्कुलमाचक्षते, यस्मिन्कुले भवति यएवं वेद॥ यउ हैवंविदा स्पर्धते ॥ अनुशुष्य हैवान्ततोम्रियत॥ इत्यध्यात्मम्
अथाधिदेवतम् ज्वलिष्याम्य् एवाहमित्यग्निर्दध्रे; तप्स्याम्यहमित्य् आदित्यो; भास्याम्यहमिति चन्द्रमा; एवमन्यादेवता यथादेवतँ॥ सयथैषां प्राणानां मध्यमः प्राण, एवमेतासां देवतानां वायुः॥ म्लोचन्ति ह्यन्यादेवता, नवायुः॥ सैषानस्तमिता देवता यद्वायुः
अथैषश्लोको भवतिः यतश्चोदेति सूर्यो, अस्तं यत्र च गच्छतीति प्राणाद्वाएषउदेति, प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्मँ, सएवाद्य, सउ श्वइति॥ यद्वाएतेऽमुर्ह्यध्रियन्त, तदेवाप्यद्यकुर्वन्ति॥ तस्मादेकमेवव्रतं चरेत्॥ प्राण्याच्चैवापान्याच्चः नेन्मा पाप्मामृत्युराप्नवदिति॥ यद्य् उ चरेत् समापिपयिषेत्॥ तेनो एतस्यै देवतायै सायुज्यँ सलोकतां जयति, यएवं वेद॥ 6 = 14.4.4.1-4=
त्रयं वाइदं, नाम रूपं कर्म॥ तेषां नाम्नां वागित्य् एतदेषामुक्थम् अतो हिसर्वाणि नामान्य् उत्तिष्ठन्ति॥ एतदेषाँ सामैतद्धिसर्वैर्नामभिः समम्॥ एतदेषां ब्रह्मैतद्धिसर्वाणि नामानि बिभर्ति
अथ रूपाणां चक्षुरित्य् एतदेषामुक्थम् अतो हिसर्वाणि रूपाण्य् उत्तिष्ठन्ति॥ एतदेषाँ सामैतद्धिसर्वै रूपैः समम्॥ एतदेषां ब्रह्मैतद्धिसर्वाणि रूपाणि बिभर्ति
अथ कर्मणामात्मेत्य् एतदेषामुक्थम् अतो हिसर्वाणि कर्माण्य् उत्तिष्ठन्ति॥ एतदेषाँ सामैतद्धिसर्वैः कर्मभिः समम्॥ एतदेषां ब्रह्मैतद्धिसर्वाणि कर्माणि बिभर्ति॥ तदेतत्त्रयँ सदेकमयमात्मात्मोएकः सन्नेतत्त्रयं॥ तदेतदमृतँ सत्येन छन्नं॥ प्राणोवाअमृतं, नामरूपेसत्यं; ताभ्यामयं प्राणश्छन्नः॥ 2 = 14.5.1-9=
डृप्तबालाकिर्हानूचानोगार्ग्य आस॥ सहोवाचाजातशत्रुं काश्यम् ब्रह्म ते ब्रवाणीति॥ सहोवाचाजातशत्रुः सहस्रमेतस्यां वाचिदद्मोः जनको, जनकइति वैजना धावन्तीति
सहोवाच गार्ग्योः यएवासावादित्येपुरुष, एतमेवाहं ब्रह्मोपास इति॥ सहोवाचाजातशत्रुः मामैतस्मिन्त्संवदिष्ठा॥ अतिष्ठाः सर्वेषां भूतानां मूर्धाराजेति वाअहमेतमुपास इति॥ सयएतमेवमुपास्ते, अतिष्ठाः सर्वेषां भूतानां मूर्धाराजा भवति
सहोवाच गार्ग्योः यएवासौचन्द्रेपुरुष, एतमेवाहं ब्रह्मोपास इति॥ सहोवाचाजातशत्रुः मामैतस्मिन्त्संवदिष्ठा॥ बृहन्पाण्दरवासाः सोमो राजेति वाअहमेतमुपास इति॥ सयएतमेवमुपास्ते, अहर्-अहर्ह सुतः प्रसुतो भवति, नास्यान्नं क्षीयते
सहोवाच गार्ग्योः यएवायं विद्युति पुरुष, एतमेवाहं ब्रह्मोपास इति॥ सहोवाचाजातशत्रुः मामैतस्मिन्त्संवदिष्ठाः॥ तेजस्वीति वाअहमेतमुपास इति॥ सयएतमेवमुपास्ते, तेजस्वीह भवति, तेजस्विनी हास्य प्रजाभवति
सहोवाच गार्ग्योः यएवायमाकाशेपुरुष, एतमेवाहं ब्रह्मोपास इति॥ सहोवाचाजातशत्रुः मामैतस्मिन्त्संवदिष्ठाः॥ पूर्णमप्रवर्तीति वाअहमेतमुपास इति॥ सयएतमेवमुपास्ते, पूर्यते प्रजया पशुभिः नास्यास्माल् लोकात्प्रजोद्वर्तते
सहोवाच गार्ग्योः यएवायं वायौपुरुष, एतमेवाहं ब्रह्मोपास इति॥ सहोवाचाजातशत्रुः मामैतस्मिन्त्संवदिष्ठा॥ इन्द्रो वैकुण्ठोऽपराजिता सेनेति वाअहमेतमुपास इति॥ सयएतमेवमुपास्ते, जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी
सहोवाच गार्ग्योः यएवायमग्नौपुरुष, एतमेवाहं ब्रह्मोपास इति॥ सहोवाचाजातशत्रुः मामैतस्मिन्त्संवदिष्ठा॥ विषासहिरिति वाअहमेतमुपास इति॥ सयएतमेवमुपास्ते, विषासहिर्ह भवति, विषासहिर्हास्य प्रजाभवति
सहोवाच गार्ग्योः यएवायमप्सुपुरुष, एतमेवाहं ब्रह्मोपास इति॥ सहोवाचाजातशत्रुः मामैतस्मिन्त्संवदिष्ठाः॥ प्रतिरूपइति वाअहमेतमुपास इति॥ सयएतमेवमुपास्ते, प्रतिरूपँ हैवैनमुपगच्छति, नाप्रतिरूपम् अथो प्रतिरुपोऽस्माज् जायते
सहोवाच गार्ग्योः यएवायमादर्शेपुरुष, एतमेवाहं ब्रह्मोपास इति॥ सहोवाचाजातशत्रुः मामैतस्मिन्त्संवदिष्ठा॥ रोचिष्णुरिति वाअहमेतमुपास इति॥ सयएतमेवमुपास्ते, रोचिष्णुर्ह भवति, रोचिष्णुर्हास्य प्रजाभवति अथो यैः संनिगच्छति, सर्वाँस् तानतिरोचते
सहोवाच गार्ग्योः यएवायं दिक्षुपुरुष, एतमेवाहं ब्रह्मोपास इति॥ सहोवाचाजातशत्रुः मामैतस्मिन्त्संवदिष्ठा॥ द्वितीयोऽनपगइति वाअहमेतमुपास इति॥ सयएतमेवमुपास्ते, द्वितीयवान्ह भवति, नास्माद्गणश्छिद्यते
सहोवाच गार्ग्योः यएवायं यन्तं पश्चाच्शब्दोऽनूदेति एतमेवाहं ब्रह्मोपास इति॥ सहोवाचाजातशत्रुः मामैतस्मिन्त्संवदिष्ठा॥ असुरिति वाअहमेतमुपास इति॥ सयएतमेवमुपास्ते, सर्वँ हैवास्मिँल् लोकआयुरेति, नैनं पुराकालात्प्राणोजहाति
सहोवाच गार्ग्योः यएवायं छायामयः पुरुष, एतमेवाहं ब्रह्मोपास इति॥ सहोवाचाजातशत्रुः मामैतस्मिन्त्संवदिष्ठा॥ मृत्युरिति वाअहमेतमुपास इति॥ सयएतमेवमुपास्ते, सर्वँ हैवास्मिँल् लोकआयुरेति, नैनं पुराकालान्मृत्युरागच्छति
सहोवाच गार्ग्योः यएवायमात्मनि पुरुषो, एतमेवाहं ब्रह्मोपास इति॥ सह उवाचाजातशत्रुः मामैतस्मिन्त्संवदिष्ठा॥ अत्मन्वीति वाअहमेतमुपास इति॥ सयएतमेवमुपास्त, आत्मन्वीह भवति आत्मन्विनी हास्य प्रजाभवति॥ सह तूष्णीमास गार्ग्यः
स! होवाचाजातशत्रुः एतावन्न्व्३ इति॥ एतावद्धीति॥ नैतावता विदितं भवतीति॥ सहोवाच गार्ग्यः उप त्वायानीति
सहोवाचाजातशत्रुः प्रतिलोमं वैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद् ब्रह्म मे वक्ष्यतीति॥ व्य् एवत्वा ज्ञपयिष्यामीति॥ तं पाणावादायोत्तस्थौ॥ तौह पुरुषँ सुप्तमाजग्मतुः॥ तमेतैर्नामभिरामन्त्रयां चक्रेः बृहन्पाण्दरवासः, सोम राजन्निति॥ सनोत्तस्थौ॥ तं पाणिनापेषं बोधयां चकार॥ सहोत्तस्थौ
सहोवाचाजातशत्रुः यत्रैषएतत्सुप्तोऽभूद् यएषविज्ञानमयः पुरुषः, क्वैषतदाभूत् कुत एतदागादिति॥ तदु ह नमेने गार्ग्यः
सहोवाचाजातशत्रुः यत्रैषएतत्सुप्तोऽभूद् यएषविज्ञानमयः पुरुषः तदेषां प्राणानां विज्ञानेन विज्नानमादाय, यएषोऽन्तर्हृदय आकाशः तस्मिङ्छेते
तानि यदागृह्णाति अथ हैतत्पुरुषः स्वपिति नाम॥ तद्गृहीतएवप्राणोभवति, गृहीतावाग् गृहीतं चक्षुः गृहीतँ श्रोत्रं, गृहीतं मनः
सयत्रैतत्स्वप्न्यया चरति, तेहास्य लोकाः॥ तदुतेव महाराजोभवति उतेव महाब्राह्मण, उतेवोच्चावचं निगच्छति