द्वयाह प्राजापत्या, देवाश्चासुराश्च॥ ततः कानीयसाएवदेवा, ज्यायसाअसुराः॥ तएषुलोकेष्वस्पर्धन्त
तेह देवाऊचुः हन्तासुरान्यज्ञउद्गीथेनात्ययामेति
तेह वाचमूचुः त्वं न उद्गायेति॥ तथेति॥ तेभ्यो वागुदगायद्॥ योवाचिभोगस् तं देवेभ्य आगायद् यत्कल्याणं वदति तदात्मने॥ तेऽविदुः अनेन वैन उद्गात्रात्येष्यन्तीति॥ तमभिद्रुत्य पाप्मनाविध्यन्त्॥ सयः सपाप्मायदेवेदमप्रतिरूपं वदति, सएवसपाप्मा
अथ ह प्राणमूचुः त्वं न उद्गायेति॥ तथेति॥ तेभ्यः प्राणउदगायद्॥ यः प्राणेभोगस् तं देवेभ्य आगायद् यत्कल्याणं जिघ्रति तदात्मने॥ तेऽविदुः अनेन वैन उद्गात्रात्येष्यन्तीति॥ तमभिद्रुत्य पाप्मनाविध्यन्त्॥ सयः सपाप्मायदेवेदमप्रतिरूपं जिघ्रति, सएवसपाप्मा
अथ ह चक्षुरूचुः त्वं न उद्गायेति॥ तथेति॥ तेभ्यश्चक्षुरुदगायद्॥ यश्चक्षुषि भोगस् तं देवेभ्य आगायद् यत्कल्याणं पश्यति तदात्मने॥ तेऽविदुः अनेन वैन उद्गात्रात्येष्यन्तीति॥ तमभिद्रुत्य पाप्मनाविध्यन्त्॥ सयः सपाप्मायदेवेदमप्रतिरूपं पश्यति, सएवसपाप्मा
अथ ह श्रोत्रमूचुः त्वं न उद्गायेति॥ तथेति॥ तेभ्यः श्रोत्रमुदगायद्॥ यः श्रोत्रे भोगस् तं देवेभ्य आगायद् यत्कल्याणँ शृणोति तदात्मने॥ तेऽविदुः अनेन वैन उद्गात्रात्येष्यन्तीति॥ तमभिद्रुत्य पाप्मनाविध्यन्त्॥ सयः सपाप्मायदेवेदमप्रतिरूपँ शृणोति, सएवसपाप्मा
अथ ह मन ऊचुः त्वं न उद्गायेति॥ तथेति॥ तेभ्यो मन उदगायद्॥ योमनसि भोगस् तं देवेभ्य आगायद् यत्कल्याणँ सङ्कल्पयति तदात्मने॥ तेऽविदुः अनेन वैन उद्गात्रात्येष्यन्तीति॥ तमभिद्रुत्य पाप्मनाविध्यन्त्॥ सयः सपाप्मायदेवेदमप्रतिरूपँ सङ्कल्पयति, सएवसपाप्मैवमु खल्वेतादेवताः पाप्मभिरुपासृजन्न् एवमेनाः पाप्मनाविध्यन्
अथ हेममासन्यं प्राणमूचुः त्वं न उद्गायेति॥ तथेति॥ तेभ्य एषप्राणउदगायत्॥ तेऽविदुः अनेन वैन उद्गात्रात्येष्यन्तीति॥ तमभिद्रुत्य पाप्मनाविव्यत्सन्त्॥ सयथाश्मानमृत्वालोष्टोविध्वँसेतैवँ हैवविध्वँसमाना विष्वङ्चो विनेशुः॥ ततो देवाअभवन् परासुरा॥ भवत्य् आत्मना, परास्य द्विषन्भ्रातृव्यो भवति, यएवं वेद
तेहोचुः क्वनु सोऽभूद् योन इत्थमसक्तेति॥ अयमास्येऽन्तरिति, सोऽयास्य; आङ्गिरसो, अङ्गानाँ हिरसः
सावाएषादेवता दूर्नाम, दूरँ ह्यस्या मृत्युः॥ दूरँ ह वाअस्मान्मृत्युर्भवति, यएवं वेद
सावाएषादेवतैतासां देवतानां पाप्मानं मृत्युमपहत्य, यत्रासां दिशामन्तः तद्गमयां चकार, तदासां पाप्मनो विन्यदधात्॥ तस्मान्नजनमियान् नान्तमियान् नेत्पाप्मानं मृत्युमन्ववायानीति
सावाएषादेवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत्
सावैवाचमेवप्रथमामत्यवहत्॥ सायदामृत्युमत्यमुच्यत, सोऽग्निरभवत्; सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते
अथ प्राणमत्यवहत्॥ सयदामृत्युमत्यमुच्यत, सवायुरभवत्; सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते
अथ चक्षुरत्यवहत्॥ तद्यदामृत्युमत्यमुच्यत, सआदित्योऽभवत्; सोऽसावादित्यः परेण मृत्युमतिक्रान्तस् तपति
अथ श्रोत्रमत्यवहत्॥ तद्यदामृत्युमत्यमुच्यत, तादिशोऽभवन्; ताइमादिशः परेण मृत्युमतिक्रान्ताः
अथ मनोऽत्यवहत्॥ तद्यदामृत्युमत्यमुच्यत, सचन्द्रमा अभवत्; सोऽसौचन्द्रः परेण मृत्युमतिक्रान्तो भाति॥ एवँ ह वाएनमेषादेवता मृत्युमतिवहति, यएवं वेद
अथात्मनेऽन्नाद्यमागायद्॥ यद्धिकिङ्चान्नमद्यते, अनेनैवतदद्यत; इहप्रतितिष्ठति
तेदेवाअब्रुवन्न् एतावद्वाइदँ सर्वं यदन्नं, तदात्मन आगासीः अनु नोऽस्मिन्नन्न आभजस्वेति॥ तेवैमाभिसंविशतेति॥ तथेति॥ तँ समन्तं परिण्यविशन्त॥ तस्माद्यदनेनान्नमत्ति, तेनैतास् तृप्यन्ति॥ एवँ ह वाएनँ स्वाअभिसंविशन्ति, भर्ता स्वानाँ श्रेष्ठः पुरएताभवत्यन्नादोऽधिपतिः यएवं वेद
यउ हैवंविदँ स्वेषु प्रतिप्रतिर्बुभूषति, नहैवालं भार्येभ्यो भवति अथ यएवैतमनुभवति, योवैतमनु भार्यान्बुभूर्षति, सहैवालं भार्येभ्यो भवति
सोऽयास्य आङ्गिरसो, अङ्गानाँ हिरसः॥ प्राणोवाअङ्गानाँ रसः॥ प्राणोहिवाअङ्गानाँ रसः तस्माद्यस्मात्कस्माच्चाङ्गात्प्राणउत्क्रामति, तदेवतच्छुष्यति एषहिवाअङ्गानाँ रसः
एषउ एवबृहस्पतिः वाग्वैबृहती, तस्या एषपतिः तस्मादु बृहस्पतिः
एषउ एवब्रह्मणस्पतिः वाग्वैब्रह्म, तस्या एषपतिः तस्मादु ब्रह्मणस्पतिः
एषउ एवसाम; वाग्वैसामैषसाचामश्चेति, तत्साम्नः सामत्वं॥ यद्वेवसमः प्लुषिणा, समोमशकेन, समोनागेन, समएभिस् त्रिभिर्लोकैः, समोऽनेन सर्वेण, तस्माद्वेवसामाश्नुतेसाम्नः सायुज्यँ सलोकतां, यएवमेतत्साम वेद
एषउ वाउद्गीथः॥ प्राणोवाउत् प्राणेन हीदँ सर्वमुत्तब्धं॥ वागेवगीथोच्च गीथा चेति, सउद्गीथः
तद्धापि ब्रह्मदत्तश्चैकितानेयोराजानं भक्षयन्नुवाचायं त्यस्य राजा मूर्धानं विपातयताद् यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति॥ वाचाच ह्य् एवसप्राणेन चोदगायदिति
तस्य हैतस्य साम्नो यः स्वं वेद, भवति हास्य स्वं॥ तस्य वैस्वर एवस्वं॥ तस्मादार्त्विज्यं करिष्यन्वाचिस्वरमिच्छेत, तया वाचास्वरसम्पन्नयार्त्विज्यं कुर्यात्॥ तस्माद्यज्ञेस्वरवन्तं दिदृक्षन्त एवाथो यस्य स्वं भवति॥ भवति हास्य स्वं, यएवमेतत्साम्नः स्वं वेद
तस्य हैतस्य साम्नो यः सुवर्णं वेद, भवति हास्य सुवर्णं॥ तस्य वैस्वर एवसुवर्णं॥ भवति हास्य सुवर्णं, यएवमेतत्साम्नः सुवर्णं वेद
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद, प्रति ह तिष्ठति॥ तस्य वैवागेवप्रतिष्ठा, वाचिहिखल्वेषएतत्प्राणः प्रतिष्ठितो गीयते, अन्न इत्य् उ हैक आहुः
अथातः पवमानानामेवाभ्यारोहः॥ सवैखलु प्रस्तोतासाम प्रस्तौति॥ सयत्र प्रस्तुयात् तदेतानि जपेद् असतो मा सद्गमय तमसो मा ज्योतिर्गमय, मृत्योर्मामृतं गमयेति