यदेतद्धृदयं मनश्चैतत् । सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिधृर्तिमतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति
That which is this heart and this mind: perception, command, understanding, wisdom, intelligence, vision, steadfastness, thought, impulse, memory, intention, purpose, life, desire, control—these all are but names of consciousness.
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव । बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म
This is Brahman, this is Indra, this is Prajāpati; all these gods, and these five great elements—earth, air, space, water, light—and all these small and mixed things; seeds of all kinds, those born from eggs, from wombs, from sweat, from sprouts; horses, cattle, people, elephants—whatever here breathes, moves, flies, or is stationary—all this is guided by consciousness, established in consciousness. The world is guided by consciousness, consciousness is its foundation, consciousness is Brahman.
स एतेन प्राज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत्
With this intelligent self, departing from this world, he rose to that heavenly world; having attained all desires, he became immortal, he became immortal.