विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात्
शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्
अत एव च नित्यत्वम्
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च
मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः
ज्योतिषि भावाच् च
भावं तु बादरायणो ऽस्ति हि
शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि
क्षत्रियत्वगतेश् च
उत्तरत्र चैत्ररथेन लिङ्गात्
संस्कारपरामर्शात् तदभावाभिलापाच् च
तदभावनिर्धारणे च प्रवृत्तेः
श्रवणाध्ययनार्थप्रतिषेधात्
स्मृतेश् च
कम्पनात्
ज्योतिर् दर्शनात्
आकाशो ऽर्थान्तरत्वादिव्यपदेशात्
सुषुप्त्युत्क्रान्त्योर् भेदेन
पत्यादिशब्देभ्यः
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च
सूक्ष्मं तु तदर्हत्वात्
तदधीनत्वाद् अर्थवत्
ज्ञेयत्वावचनाच् च
वदतीति चेन् न प्राज्ञो हि प्रकरणात्
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च
महद्वच् च
चमसवदविशेषात्
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके
कल्पनोपदेशाच् च मध्वादिवदविरोधः
न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च