साक्षाद् अप्य् अविरोधं जैमिनिः
अभिव्यक्तेर् इत्य् आश्मरथ्यः
अनुस्मृतेर् बादरिः
संपत्तेर् इति जैमिनिस् तथा हि दर्शयति
आमनन्ति चैनम् अस्मिन्
द्युभ्वाद्यायतनं स्वशब्दात्
मुक्तोपसृप्यव्यपदेशाच् च
नानुमानम् अतच्छब्दात् प्राणभृच् च
भेदव्यपदेशात्
प्रकरणात्
स्थित्यदनाभ्यां च
भूमा संप्रसादाद् अध्युपदेशात्
धर्मोपपत्तेश् च
अक्षरम् अम्बरान्तधृतेः
सा च प्रशासनात्
अन्यभावव्यावृत्तेश्च
ईक्षतिकर्मव्यपदेशात् सः
दहर उत्तरेभ्यः
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च
धृतेश् च महिम्नो ऽस्यास्मिन्न् उपलब्धेः
प्रसिद्धेश् च
इतरपरामर्शात् स इति चेन् नासंभवात्
उत्तराच् चेद् आविर्भूतस्वरूपस् तु
अन्यार्थश् च परामर्शः
अल्पश्रुतेर् इति चेत् तद् उक्तम्
अनुकृतेस् तस्य च
अपि च स्मर्यते
शब्दाद् एव प्रमितः
हृद्यपेक्षया तु मनुष्याधिकारत्वात्
तदुपर्य् अपि बादरायणः संभवात्