संकल्पाद् एव तच्छ्रुतेः
अत एव चानन्याधिपतिः
अभावं बादरिर् आह ह्य् एवम्
भावं जैमिनिर् विकल्पामननात्
द्वादशाहवद् उभयविधं बादरायणो ऽतः
तन्वभावे सन्ध्यवद् उपपत्तेः
भावे जाग्रद्वत्
प्रदीपवदावेशस् तथा हि दर्शयति
स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि
जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च
प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः
विकारावर्ति च तथा हि स्थितिम् आह
दर्शयतश् चैवं प्रत्यक्षानुमाने
भोगमात्रसाम्यलिङ्गाच् च
अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात्