स्मर्यते च
तानि परे तथा ह्य् आह
अविभागो वचनात्
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्
रश्म्यनुसारी
निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च
अतश् चायने ऽपि दक्षिणे
योगिनः प्रति स्मर्येते स्मार्ते चैते
अर्चिरादिना तत्प्रथितेः
वायुमब्दादविशेषविशेषाभ्याम्
तटितो ऽधि वरुणः संबन्धात्
आतिवाहिकास् तल्लिङ्गात्
वैद्युतेनैव ततस् तच्छ्रुतेः
कार्यं बादरिरस्य गत्युपपत्तेः
विशेषितत्वाच् च
सामीप्यात् तु तद्व्यपदेशः
कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात्
स्मृतेश् च
परं जैमिनिर् मुख्यत्वात्
दर्शनाच् च
न च कार्ये प्रत्यभिसन्धिः
अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च
विशेषं च दर्शयति
संपद्याविर्भावः स्वेन शब्दात्
मुक्तः प्रतिज्ञानात्
आत्मा प्रकरणात्
अविभागेन दृष्टत्वात्
ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः
चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः
एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः