तन्मनः प्राण उत्तरात्
सो ऽध्यक्षे तदुपगमादिभ्यः
भूतेषु तच्छ्रुतेः
नैकस्मिन् दर्शयतो हि
समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य
तदापीतेः संसारव्यपदेशात्
सूक्ष्मं प्रमाणतश् च तथोपलब्धेः
नोपमर्देनातः
अस्यैव चोपपत्तेर् ऊष्मा
प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्येकेषाम्
स्मर्यते च
तानि परे तथा ह्य् आह
अविभागो वचनात्
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्
रश्म्यनुसारी
निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च
अतश् चायने ऽपि दक्षिणे
योगिनः प्रति स्मर्येते स्मार्ते चैते
अर्चिरादिना तत्प्रथितेः
वायुमब्दादविशेषविशेषाभ्याम्
तटितो ऽधि वरुणः संबन्धात्
आतिवाहिकास् तल्लिङ्गात्
वैद्युतेनैव ततस् तच्छ्रुतेः
कार्यं बादरिरस्य गत्युपपत्तेः
विशेषितत्वाच् च
सामीप्यात् तु तद्व्यपदेशः
कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात्
स्मृतेश् च
परं जैमिनिर् मुख्यत्वात्
दर्शनाच् च