लिङ्गाच् च
आत्मेति तूपगच्छन्ति ग्राहयन्ति च
न प्रतीके न हि सः
ब्रह्मदृष्टिर् उत्कर्षात्
आदित्यादिमतयश् चाङ्ग उपपत्तेः
आसीनः संभवात्
ध्यानाच् च
अचलत्वं चापेक्ष्य
स्मरन्ति च
यत्रैकाग्रता तत्राविशेषात्
आप्रयाणात् तत्रापि हि दृष्टम्
तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात्
इतरस्याप्य् एवम् असंश्लेषः पाते तु
अनारब्धकार्ये एव तु पूर्वे तदवधेः
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्
अतो ऽन्यापि ह्य् एकेषाम् उभयोः
यद् एव विद्ययेति हि
भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते
वाङ्मनसि दर्शनाच् छब्दाच् च
अत एव सर्वाण्यनु
तन्मनः प्राण उत्तरात्
सो ऽध्यक्षे तदुपगमादिभ्यः
भूतेषु तच्छ्रुतेः
नैकस्मिन् दर्शयतो हि
समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य
तदापीतेः संसारव्यपदेशात्
सूक्ष्मं प्रमाणतश् च तथोपलब्धेः
नोपमर्देनातः
अस्यैव चोपपत्तेर् ऊष्मा
प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्येकेषाम्