सहकारित्वेन च
सर्वथापि त एवोभयलिङ्गात्
अनभिभवं च दर्शयति
अन्तरा चापि तु तद्दृष्टेः
अपि स्मर्यते
विशेषानुग्रहश् च
अतस् त्व् इतरज्ज्यायो लिङ्गाच् च
तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात्
उपपूर्वम् अपीत्य् एके भावमशनवत् तद् उक्तम्
बहिस् तूभयथापि स्मृतेर् आचाराच् च
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्
कृत्स्नभावात् तु गृहिणोपसंहारः
मौनवद् इतरेषाम् अप्य् उपदेशात्
अनाविष्कुर्वन्न् अन्वयात्
ऐहिकम् अप्रस्तुतप्रतिबन्धे तद्दर्शनात्
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः
आवृत्तिर् असकृदुपदेशात्
लिङ्गाच् च
आत्मेति तूपगच्छन्ति ग्राहयन्ति च
न प्रतीके न हि सः
ब्रह्मदृष्टिर् उत्कर्षात्
आदित्यादिमतयश् चाङ्ग उपपत्तेः
आसीनः संभवात्
ध्यानाच् च
अचलत्वं चापेक्ष्य
स्मरन्ति च
यत्रैकाग्रता तत्राविशेषात्