आचारदर्शनात्
तच्छ्रुतेः
समन्वारम्भणात्
तद्वतो विधानात्
नियमात्
अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात्
तुल्यं तु दर्शनम्
असार्वत्रिकी
विभागः शतवत्
अध्ययनमात्रवतः
नाविशेषात्
स्तुतये ऽनुमतिर्वा
कामकारेण चैके
उपमर्दं च
ऊर्ध्वरेतस्सु च शब्दे हि
परामर्शं जैमिनिरचोदनाच्चापवदति हि
अनुष्ठेयं बादरायणस्साम्यश्रुतेः
विधिर् वा धारणवत्
स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात्
भावशब्दाच् च
पारिप्लवार्था इति चेन् न विशेषितत्वात्
तथा चैकवाक्योपबन्धात्
अत एव चाग्नीन्धनाद्यनपेक्षा
सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत्
शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात्
सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात्
अबाधाच् च
अपि स्मर्यते
शब्दश् चातो ऽकामकारे
विहितत्वाच् चाऽश्रमकर्मापि