विकल्पो ऽविशिष्टफलत्वात्
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात्
अङ्गेषु यथाश्रयभावः
शिष्टेश् च
समाहारात्
गुणसाधारण्यश्रुतेश् च
न वा तत्सहभावाश्रुतेः
दर्शनाच् च
पुरुषार्थो ऽतः शब्दाद् इति बादरायणः
शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः
आचारदर्शनात्
तच्छ्रुतेः
समन्वारम्भणात्
तद्वतो विधानात्
नियमात्
अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात्
तुल्यं तु दर्शनम्
असार्वत्रिकी
विभागः शतवत्
अध्ययनमात्रवतः
नाविशेषात्
स्तुतये ऽनुमतिर्वा
कामकारेण चैके
उपमर्दं च
ऊर्ध्वरेतस्सु च शब्दे हि
परामर्शं जैमिनिरचोदनाच्चापवदति हि
अनुष्ठेयं बादरायणस्साम्यश्रुतेः
विधिर् वा धारणवत्
स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात्
भावशब्दाच् च