अत्ता चराचरग्रहणात्
प्रकरणाच् च
गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात्
विशेषणाच् च
अन्तर उपपत्तेः
स्थानादिव्यपदेशाच् च
सुखविशिष्टाभिधानाद् एव च
अत एव च स ब्रह्म
श्रुतोपनिषत्कगत्यभिधानाच् च
अनवस्थितेर् असंभवाच् च नेतरः
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्
न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च
उभये ऽपि हि भेदेनैनम् अधीयते
अदृश्यत्वादिगुणको धर्मोक्तेः
विशेषणभेदव्यपदेशाभ्यां च नेतरौ
रूपोपन्यासाच् च
वैश्वानरः साधारणशब्दविशेषात्
स्मर्यमाणम् अनुमानं स्याद् इति
शब्दादिभ्यो ऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते
अत एव न देवता भूतं च
साक्षाद् अप्य् अविरोधं जैमिनिः
अभिव्यक्तेर् इत्य् आश्मरथ्यः
अनुस्मृतेर् बादरिः
संपत्तेर् इति जैमिनिस् तथा हि दर्शयति
आमनन्ति चैनम् अस्मिन्
द्युभ्वाद्यायतनं स्वशब्दात्
मुक्तोपसृप्यव्यपदेशाच् च
नानुमानम् अतच्छब्दात् प्राणभृच् च
भेदव्यपदेशात्
प्रकरणात्