सांपराये तर्तव्याभावात् तथा ह्य् अन्ये
छन्दत उभयाविरोधात्
गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः
उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत्
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम्
अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम्
अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्
इयदामननात्
अन्तरा भूतग्रामवत्स्वात्मनो ऽन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशवत्
व्यतिहारो विशिंषन्ति हीतरवत्
सैव हि सत्यादयः
कामादीतरत्र तत्र चाऽयतनादिभ्यः
आदरादलोपः
उपस्थिते ऽतस्तद्वचनात्
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम्
प्रदानवदेव तदुक्तम्
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत्
अतिदेशाच् च
विद्यैव तु निर्धारणाद्दर्शनाच् च
श्रुत्यादिबलीयस्त्वाच् च न बाधः
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम्
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः
एक आत्मनः शरीरे भावात्
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत्
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्
मन्त्रादिवद्वाविरोधः
भूम्नः क्रतुवज्ज्यायस्वं तथा हि दर्शयति
नाना शब्दादिभेदात्