न वा प्रकरणभेदात् परोवरीयस्त्वादिवत्
संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि
व्याप्तेश् च समञ्जसम्
सर्वाभेदादन्यत्रेमे
आनन्दादयः प्रधानस्य
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे
इतरे त्वर्थसामान्यात्
आध्यानाय प्रयोजनाभावात्
आत्मशब्दाच् च
आत्मगृहीतिर् इतरवद् उत्तरात्
अन्वयाद् इति चेत् स्याद् अवधारणात्
कार्याख्यानादपूर्वम्
समान एवं चाभेदात्
सम्बन्धादेवमन्यत्रापि
न वा विशेषात्
दर्शयति च
संभृतिद्युव्याप्त्यपि चातः
पुरुषविद्यायामपि चेतरेषामनाम्नानात्
वेधाद्यर्थभेदात्
हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम्
सांपराये तर्तव्याभावात् तथा ह्य् अन्ये
छन्दत उभयाविरोधात्
गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः
उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत्
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम्
अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम्
अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्
इयदामननात्
अन्तरा भूतग्रामवत्स्वात्मनो ऽन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशवत्
व्यतिहारो विशिंषन्ति हीतरवत्