फलमत उपपत्तेः
श्रुतत्वाच् च
धर्मं जैमिनिरत एव
पूर्वं तु बादरायणो हेतुव्यपदेशात्
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्
भेदान् नेति चेद् एकस्याम् अपि
स्वाध्यायस्य तथात्वे हि समाचारे ऽधिकाराच् च सववच् च तन्नियमः
दर्शयति च
उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च
अन्यथात्वं शब्दाद् इति चेन् नाविशेषात्
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत्
संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि
व्याप्तेश् च समञ्जसम्
सर्वाभेदादन्यत्रेमे
आनन्दादयः प्रधानस्य
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे
इतरे त्वर्थसामान्यात्
आध्यानाय प्रयोजनाभावात्
आत्मशब्दाच् च
आत्मगृहीतिर् इतरवद् उत्तरात्
अन्वयाद् इति चेत् स्याद् अवधारणात्
कार्याख्यानादपूर्वम्
समान एवं चाभेदात्
सम्बन्धादेवमन्यत्रापि
न वा विशेषात्
दर्शयति च
संभृतिद्युव्याप्त्यपि चातः
पुरुषविद्यायामपि चेतरेषामनाम्नानात्
वेधाद्यर्थभेदात्
हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम्