तदभावो नाडीषु तच्छ्रुतेरात्मनि च
अतः प्रबोधो ऽस्मात्
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः
मुग्धेर्ऽधसंपत्तिः परिशेषात्
न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि
भेदाद् इति चेन् न प्रत्येकमतद्वचनात्
अपि चैवम् एके
अरूपवदेव हि तत्प्रधानत्वात्
प्रकाशवच्चावैयर्थ्यात्
आह च तन्मात्रम्
दर्शयति चाथो अपि स्मर्यते
अत एव चोपमा सूर्यकादिवत्
अम्बुवदग्रहणात् तु न तथात्वम्
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच् च
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः
तदव्यक्तमाह हि
अपि संराधने प्रत्यक्षानुमानाभ्याम्
प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात्
अतो ऽनन्तेन तथा हि लिङ्गम्
उभयव्यपदेशात्त्वहिकुण्डलवत्
प्रकाशाश्रयवद्वा तेजस्त्वात्
पूर्ववद्वा
प्रतिषेधाच् च
परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः
सामान्यात् तु
बुद्ध्यर्थः पादवत्
स्थानविशेषात्प्रकाशादिवत्
उपपत्तेश् च
तथान्यप्रतिषेधात्
अनेन सर्वगतत्वमायामशब्दादिभ्यः