अग्न्यादिश्रुतेर् इति चेन् न भाक्तत्वात्
प्रथमे ऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः
अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः
भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति
कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च
चरणाद् इति चेन् न तदुपलक्षणार्थेति कार्ष्णाजिनिः
आनर्थक्यम् इति चेन् न तदपेक्षत्वात्
सुकृतदुष्कृते एवेति तु बादरिः
अनिष्टादिकारिणाम् अपि च श्रुतम्
संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात्
स्मरन्ति च
अपि सप्त
तत्रापि तद्व्यापारादविरोधः
विद्याकर्मणोर् इति तु प्रकृतत्वात्
न तृतीये तथोपलब्धेः
स्मर्यते ऽपि च लोके
दर्शनाच् च
तृतीयशब्दावरोधः संशोकजस्य
तत्स्वाभाव्यापत्तिरुपपत्तेः
नातिचिरेण विशेषात्
अन्याधिष्ठिते पूर्ववदभिलापात्
अशुद्धम् इति चेन् न शब्दात्
रेतःसिग्योगो ऽथ
योनेःशरीरम्
सन्ध्ये सृष्टिराह हि
निर्मातारं चैके पुत्रादयश् च
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्
पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ
देहयोगाद्वा सो ऽपि
सूचकश् च हि श्रुतेराचक्षते च तद्विदः