ज्योतिर् आद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात्
तस्य च नित्यत्वात्
त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात्
भेदश्रुतेर् वैलक्षण्याच् च
संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात्
मांसादि भौमं यथाशब्दमितरयोश् च
वैशेष्यात् तु तद्वादस् तद्वादः
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्
त्र्यात्मकत्वात् तु भूयस्त्वात्
प्राणगतेश् च
अग्न्यादिश्रुतेर् इति चेन् न भाक्तत्वात्
प्रथमे ऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः
अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः
भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति
कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च
चरणाद् इति चेन् न तदुपलक्षणार्थेति कार्ष्णाजिनिः
आनर्थक्यम् इति चेन् न तदपेक्षत्वात्
सुकृतदुष्कृते एवेति तु बादरिः
अनिष्टादिकारिणाम् अपि च श्रुतम्
संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात्
स्मरन्ति च
अपि सप्त
तत्रापि तद्व्यापारादविरोधः
विद्याकर्मणोर् इति तु प्रकृतत्वात्
न तृतीये तथोपलब्धेः
स्मर्यते ऽपि च लोके
दर्शनाच् च
तृतीयशब्दावरोधः संशोकजस्य
तत्स्वाभाव्यापत्तिरुपपत्तेः
नातिचिरेण विशेषात्