व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः
उपलब्धिवदनियमः
शक्तिविपर्ययात्
समाध्यभावाच् च
यथा च तक्षोभयथा
परात् तु तच्छ्रुतेः
कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः
अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके
मन्त्रवर्णात्
अपि स्मर्यते
प्रकाशादिवत् तु नैवं परः
स्मरन्ति च
अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत्
असन्ततेश् चाव्यतिकरः
आभास एव च
अदृष्टानियमात्
अभिसन्ध्यादिष्व् अपि चैवम्
प्रदेशभेदाद् इति चेन् नान्तर्भावात्
तथा प्राणाः
गौण्यसंभवात् तत्प्राक् श्रुतेश् च
तत्पूर्वकत्वाद् वाचः
सप्त गतेर् विशेषितत्वाच् च
हस्तादयस् तु स्थिते ऽतो नैवम्
अणवश् च
श्रेष्ठश् च
न वायुक्रिये पृथगुपदेशात्
चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः
अकरणत्वाच् च न दोषस् तथा हि दर्शयति
पञ्चवृत्तिर् मनोवत् व्यपदिश्यते
अणुश् च