प्रतिज्ञाहानिर् अव्यतिरेकात्
शब्देभ्यः
यावद्विकारं तु विभागो लोकवत्
एतेन मातरिश्वा व्याख्यातः
असंभवस् तु सतो ऽनुपपत्तेः
तेजो ऽतस् तथा ह्य् आह
आपः
पृथिवी
अधिकाररूपशब्दान्तरेभ्यः
तदभिध्यानाद् एव तु तल्लिङ्गात् सः
विपर्ययेण तु क्रमो ऽत उपपद्यते च
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात्
चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात्
नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः
ज्ञो ऽत एव
उत्क्रान्तिगत्यागतीनाम्
स्वात्मना चोत्तरयोः
नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात्
स्वशब्दोन्मानाभ्यां च
अविरोधश् चन्दनवत्
अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि
गुणाद्वा लोकवत्
व्यतिरेको गन्धवत् तथा हि दर्शयति
पृथगुपदेशात्
तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत्
यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात्
पुंस्त्वादिवत् त्व् अस्य सतो ऽभिव्यक्तियोगात्
नित्योपलब्ध्यनुपलब्धिप्रसङ्गो ऽन्यतरनियमो वान्यथा
कर्ता शास्त्रार्थवत्त्वात्
उपादानाद् विहारोपदेशाच् च