करणवच् चेन् न भोगादिभ्यः
अन्तवत्त्वम् असर्वज्ञता वा
उत्पत्त्यसंभवात्
न च कर्तुः करणम्
विज्ञानादिभावे वा तदप्रतिषेधः
विप्रतिषेधाच् च
न वियदश्रुतेः
अस्ति तु
गौण्यसंभवाच् छब्दाच् च
स्याच् चैकस्य ब्रह्मशब्दवत्
प्रतिज्ञाहानिर् अव्यतिरेकात्
शब्देभ्यः
यावद्विकारं तु विभागो लोकवत्
एतेन मातरिश्वा व्याख्यातः
असंभवस् तु सतो ऽनुपपत्तेः
तेजो ऽतस् तथा ह्य् आह
आपः
पृथिवी
अधिकाररूपशब्दान्तरेभ्यः
तदभिध्यानाद् एव तु तल्लिङ्गात् सः
विपर्ययेण तु क्रमो ऽत उपपद्यते च
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात्
चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात्
नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः
ज्ञो ऽत एव
उत्क्रान्तिगत्यागतीनाम्
स्वात्मना चोत्तरयोः
नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात्
स्वशब्दोन्मानाभ्यां च
अविरोधश् चन्दनवत्