अन्यथानुमितौ च ज्ञशक्तिवियोगात्
अभ्युपगमे ऽप्य् अर्थाभावात्
विप्रतिषेधाच् चासमञ्जसम्
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम्
उभयथापि न कर्मातस्तदभावः
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः
नित्यम् एव च भावात्
रूपादिमत्त्वाच् च विपर्ययो दर्शनात्
उभयथा च दोषात्
अपरिग्रहाच् चात्यन्तम् अनपेक्षा
समुदाय उभयहेतुके ऽपि तदप्राप्तिः
इतरेतरप्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घातभावानिमित्तत्वात्
उत्तरोत्पादे च पूर्वनिरोधात्
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा
प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात्
उभयथा च दोषात्
आकाशे चाविशेषात्
अनुस्मृतेश् च
नासतो ऽदृष्टत्वात्
उदासीनानाम् अपि चैवं सिद्धिः
नाभाव उपलब्धेः
वैधर्म्याच् च न स्वप्नादिवत्
न भावो ऽनुपलब्धेः
सर्वथानुपपत्तेश् च
नैकस्मिन्न् असम्भवात्
एवं चात्माकार्त्स्न्यम्
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः
पत्युर् असामञ्जस्यात्
अधिष्ठानानुपपत्तेश् च