अश्मादिवच् च तदनुपपत्तिः
उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि
देवादिवद् अपि लोके
कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा
श्रुतेस् तु शब्दमूलत्वात्
आत्मनि चैवं विचित्राश् च हि
स्वपक्षदोषाच् च
सर्वोपेता च तद्दर्शनात्
विकरणत्वान् नेति चेत् तद् उक्तम्
न प्रयोजनवत्त्वात्
लोकवत् तु लीलाकैवल्यम्
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति
न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च
सर्वधर्मोपपत्तेश् च
रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च
पयो ऽम्बुवच् चेत् तत्रापि
व्यतिरेकानवस्थितेश् चानपेक्षत्वात्
अन्यत्राभावाच् च न तृणादिवत्
पुरुषाश्मवद् इति चेत् तथापि
अङ्गित्वानुपपत्तेश् च
अन्यथानुमितौ च ज्ञशक्तिवियोगात्
अभ्युपगमे ऽप्य् अर्थाभावात्
विप्रतिषेधाच् चासमञ्जसम्
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम्
उभयथापि न कर्मातस्तदभावः
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः
नित्यम् एव च भावात्
रूपादिमत्त्वाच् च विपर्ययो दर्शनात्
उभयथा च दोषात्
अपरिग्रहाच् चात्यन्तम् अनपेक्षा