एतेन शिष्टापरिग्रहा अपि व्याख्याताः
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्
तदनन्यत्वम् आरम्भणशब्दादिभ्यः
भावे चोपलब्धेः
सत्वाच् चापरस्य
असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच् च
पटवच् च
यथा च प्राणादिः
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः
अधिकं तु भेदनिर्देशात्
अश्मादिवच् च तदनुपपत्तिः
उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि
देवादिवद् अपि लोके
कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा
श्रुतेस् तु शब्दमूलत्वात्
आत्मनि चैवं विचित्राश् च हि
स्वपक्षदोषाच् च
सर्वोपेता च तद्दर्शनात्
विकरणत्वान् नेति चेत् तद् उक्तम्
न प्रयोजनवत्त्वात्
लोकवत् तु लीलाकैवल्यम्
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति
न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च
सर्वधर्मोपपत्तेश् च
रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च
पयो ऽम्बुवच् चेत् तत्रापि
व्यतिरेकानवस्थितेश् चानपेक्षत्वात्
अन्यत्राभावाच् च न तृणादिवत्
पुरुषाश्मवद् इति चेत् तथापि
अङ्गित्वानुपपत्तेश् च