अवस्थितेर् इति काशकृत्स्नः
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात्
अभिध्योपदेशाच् च
साक्षाच् चोभयाम्नानात्
आत्मकृतेः
परिणामात्
योनिश् च हि गीयते
एतेन सर्वे व्याख्याता व्याख्याताः
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात्
इतरेषां चानुपलब्धेः
एतेन योगः प्रत्युक्तः
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात्
अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम्
दृश्यते तु
असद् इति चेन् न प्रतिषेधमात्रत्वात्
अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम्
न तु दृष्टान्तभावात्
स्वपक्षदोषाच् च
तर्काप्रतिष्ठानाद् अपि
अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः
एतेन शिष्टापरिग्रहा अपि व्याख्याताः
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्
तदनन्यत्वम् आरम्भणशब्दादिभ्यः
भावे चोपलब्धेः
सत्वाच् चापरस्य
असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच् च
पटवच् च
यथा च प्राणादिः
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः
अधिकं तु भेदनिर्देशात्