सूक्ष्मं तु तदर्हत्वात्
तदधीनत्वाद् अर्थवत्
ज्ञेयत्वावचनाच् च
वदतीति चेन् न प्राज्ञो हि प्रकरणात्
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च
महद्वच् च
चमसवदविशेषात्
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके
कल्पनोपदेशाच् च मध्वादिवदविरोधः
न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च
प्राणादयो वाक्यशेषात्
ज्योतिषैकेषाम् असत्यन्ने
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः
समाकर्षात्
जगद्वाचित्वात्
जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम्
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके
वाक्यान्वयात्
प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः
उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः
अवस्थितेर् इति काशकृत्स्नः
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात्
अभिध्योपदेशाच् च
साक्षाच् चोभयाम्नानात्
आत्मकृतेः
परिणामात्
योनिश् च हि गीयते
एतेन सर्वे व्याख्याता व्याख्याताः
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात्
इतरेषां चानुपलब्धेः