गतिसामान्यात्
श्रुतत्वाच् च
आनन्दमयो ऽभ्यासात्
विकारशब्दान् नेति चेन् न प्राचुर्यात्
तद्धेतुव्यपदेशाच् च
मान्त्रवर्णिकमेव च गीयते
नेतरो ऽनुपपत्तेः
भेदव्यपदेशाच् च
कामाच् च नानुमानापेक्षा
अस्मिन्न् अस्य च तद्योगं शास्ति
अन्तस् तद्धर्मोपदेशात्
भेदव्यपदेशाच् चान्यः
आकाशस् तल्लिङ्गात्
अत एव प्राणः
ज्योतिश् चरणाभिधानात्
छन्दो ऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम्
भूतादिपादव्यपदेशोपपत्तेश् चैवम्
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात्
प्राणस् तथानुगमात्
न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन्
शास्त्रदृष्ट्या तूपदेशो वामदेववत्
जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात्
सर्वत्र प्रसिद्धोपदेशात्
विवक्षितगुणोपपत्तेश् च
अनुपपत्तेस् तु न शारीरः
कर्मकर्तृव्यपदेशाच् च
शब्दविशेषात्
स्मृतेश् च
अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च
संभोगप्राप्तिर् इति चेन् न वैशेष्यात्