नित्य आत्मसहायश्च देवासुरपतिः पतिः । युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ॥ ९० ॥
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः । वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ ९१ ॥
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः । अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ ९२ ॥
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः । निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ ९३ ॥
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् । [रत्नाङ्गो] मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ ९४ ॥
आरोहणोऽधिरोहश्च शीलधारी महायशाः । सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ ९५ ॥ [योगकरो]
युगरूपो महारूपो महानागहनो वधः । न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ ९६ ॥
बहुमालो महामालः शशी हरसुलोचनः । विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ ९७ ॥
त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः । बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ ९८ ॥
निवेदनः सुखाजातः सुगन्धारो महाधनुः । गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ ९९ ॥
मन्थानो बहुलो वायुः सकलः सर्वलोचनः । तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ १०० ॥
छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः । मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥ १०१ ॥
हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् । सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ १०२ ॥
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् । पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ १०३ ॥
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् । पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १०४ ॥
गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः । अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ १०५ ॥
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः । चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ १०६ ॥
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् । उमापतिरुमाकान्तो जाह्नवीधृदुमाधवः ॥ १०७ ॥
वरो वराहो वरदो वरेण्यः सुमहास्वनः । महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ १०८ ॥
पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् । [प्रीतात्मा] सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ १०९ ॥
चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः । साध्यर्षिर्वसुरादित्यो विवस्वान्सवितामृतः ॥ ११० ॥
व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः । ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः ॥ १११ ॥
कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः । विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥ ११२ ॥
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ११३ ॥
निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः । देवासुरविनिर्माता देवासुरपरायणः ॥ ११४ ॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः । देवासुरमहामात्रो देवासुरगणाश्रयः ॥ ११५ ॥
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः । देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ ११६ ॥ [देवादि]
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः । सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ ११७ ॥
उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः । ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ ११८ ॥
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः । सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ ११९ ॥