उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः । सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ ७० ॥
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः । स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥ ७१ ॥
बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः । अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ ७२ ॥
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा । [हरि] अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ ७३ ॥
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा । धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ ७४ ॥
प्रभावः सर्वगो वायुरर्यमा सविता रविः । उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥ ७५ ॥
विभुर्वर्णविभावी च सर्वकामगुणावहः । पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ ७६ ॥
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी । कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ ७७ ॥
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः । देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ ७८ ॥
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः । कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ ७९ ॥
वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्छदः । सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ ८० ॥
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः । सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ ८१ ॥
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः । सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ ८२ ॥
भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ ८३ ॥
वाहिता सर्वभूतानां निलयश्च विभुर्भवः । अमोघः सम्यतो ह्यश्वो भोजनः प्राणधारणः ॥ ८४ ॥
धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः । गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ८५ ॥
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् । प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ८६ ॥
गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः । महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ८७ ॥
महाकेतुर्महाधातुर्नैकसानुचरश्चलः । आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ ८८ ॥
तोरणस्तारणो वातः परिधी पतिखेचरः । सम्योगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ ८९ ॥
नित्य आत्मसहायश्च देवासुरपतिः पतिः । युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ॥ ९० ॥
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः । वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ ९१ ॥
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः । अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ ९२ ॥
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः । निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ ९३ ॥
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् । [रत्नाङ्गो] मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ ९४ ॥
आरोहणोऽधिरोहश्च शीलधारी महायशाः । सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ ९५ ॥ [योगकरो]
युगरूपो महारूपो महानागहनो वधः । न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ ९६ ॥
बहुमालो महामालः शशी हरसुलोचनः । विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ ९७ ॥
त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः । बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ ९८ ॥
निवेदनः सुखाजातः सुगन्धारो महाधनुः । गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ ९९ ॥