अक्षरं परमं ब्रह्म बलवच्छक्र एव च । नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ ५० ॥
बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् । वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥ ५१ ॥
महामेघनिवासी च महाघोरो वशीकरः । अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ५२ ॥
वृषणः शङ्करो नित्यवर्चस्वी धूमकेतनः । नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ ५३ ॥
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः । उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ ५४ ॥
कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् । महापादो महाहस्तो महाकायो महायशाः ॥ ५५ ॥
महामूर्धा महामात्रो महानेत्रो निशालयः । महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ ५६ ॥
महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् । महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ ५७ ॥
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः । महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ ५८ ॥
महानखो महारोमा महाकेशो महाजटः । प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ५९ ॥
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः । वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ६० ॥
गण्डली मेरुधामा च देवाधिपतिरेव च । अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ ६१ ॥
यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा । अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ६२ ॥
उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः । नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥ ६३ ॥
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः । नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ६४ ॥
सगणो गणकारश्च भूतवाहनसारथिः । भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ६५ ॥
लोकपालस्तथाऽलोको महात्मा सर्वपूजितः । शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥ ६६ ॥
आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः । विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ ६७ ॥
कपिलः कपिशः शुक्ल आयुश्चैव परोः । गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ ६८ ॥
परश्वधायुधो देवो ह्यनुकारी सुबान्धवः । तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ ६९ ॥
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः । सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ ७० ॥
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः । स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥ ७१ ॥
बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः । अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ ७२ ॥
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा । [हरि] अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ ७३ ॥
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा । धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ ७४ ॥
प्रभावः सर्वगो वायुरर्यमा सविता रविः । उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥ ७५ ॥
विभुर्वर्णविभावी च सर्वकामगुणावहः । पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ ७६ ॥
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी । कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ ७७ ॥
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः । देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ ७८ ॥
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः । कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ ७९ ॥