विमोचनः सुसरणो हिरण्यकवचोद्भवः । मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ ३० ॥ [मेघजो]
सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः । व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥ ३१ ॥
त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः । बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः ॥ ३२ ॥
साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः । प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥ ३३ ॥
सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः । हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः ॥ ३४ ॥ [यज्ञः]
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः । सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ३५ ॥
मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः । सर्वकालप्रसादश्च सुबलो बलरूपधृत् ॥ ३६ ॥
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः । आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ ३७ ॥
रौद्ररूपोऽम्शुरादित्यो बहुरश्मिः सुवर्चसी । वसुवेगो महावेगो मनोवेगो निशाचरः ॥ ३८ ॥
सर्ववासी श्रियावासी उपदेशकरोऽकरः । मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ॥ ३९ ॥
पक्षी च पक्षरूपश्च अतिदीप्तो विशां पतिः । उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ ४० ॥
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः । सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ ४१ ॥
भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः । महासेनो विशाखश्च षष्टिभागो गवां पतिः ॥ ४२ ॥
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च । वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ ४३ ॥
वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः । [नित्यमाश्रितपूजितः] ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ ४४ ॥
ईशान ईश्वरः कालो निशाचारी पिनाकभृत् । निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ ४५ ॥
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः । भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ ४६ ॥
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च । लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ ४७ ॥
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः । इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ ४८ ॥
दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः । लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ ४९ ॥
अक्षरं परमं ब्रह्म बलवच्छक्र एव च । नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ ५० ॥
बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् । वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥ ५१ ॥
महामेघनिवासी च महाघोरो वशीकरः । अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ५२ ॥
वृषणः शङ्करो नित्यवर्चस्वी धूमकेतनः । नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ ५३ ॥
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः । उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ ५४ ॥
कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् । महापादो महाहस्तो महाकायो महायशाः ॥ ५५ ॥
महामूर्धा महामात्रो महानेत्रो निशालयः । महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ ५६ ॥
महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् । महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ ५७ ॥
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः । महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ ५८ ॥
महानखो महारोमा महाकेशो महाजटः । प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ५९ ॥