गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः । शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १२० ॥
अभिरामः सुरगणो विरामः सर्वसाधनः । ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १२१ ॥
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः । सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ १२२ ॥
व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः । [भक्तानुग्रहकारकः] विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥ १२३ ॥
श्री शिव सहस्रनाम स्तोत्रम् – उत्तरपीठिक (फलश्रुति)