ध्यानम् । शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां प्रलयहुतवहं साङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
स्तोत्रम् । ओं स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः । सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ १ ॥
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः । हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ २ ॥
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ ३ ॥
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः । उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ४ ॥
महारूपो महाकायो वृषरूपो महायशाः । महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ ५ ॥
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः । पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ ६ ॥
सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः । सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ ७ ॥
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः । अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥ ८ ॥ [आद्यन्तलयकर्ता च]
महातपा घोरतपा अदीनो दीनसाधकः । संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ ९ ॥
योगी योज्यो महाबीजो महारेता महाबलः । सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ १० ॥
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः । विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ॥ ११ ॥
गणकर्ता गणपतिर्दिग्वासाः काम एव च । मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः ॥ १२ ॥
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् । अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥ १३ ॥
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः । उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ १४ ॥
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च । सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥ १५ ॥
अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि । ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥ १६ ॥
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः । अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः ॥ १७ ॥
गजहा दैत्यहा कालो लोकधाता गुणाकरः । सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ १८ ॥
कालयोगी महानादः सर्वकामश्चतुष्पथः । निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ १९ ॥
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः । नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ २० ॥
घोरो महातपाः पाशो नित्यो गिरिरुहो नभः । सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ २१ ॥
अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः । [मर्ष] दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ २२ ॥
तेजोपहारी बलहा मुदितोऽर्थोऽजितोऽवरः । गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ २३ ॥
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः । सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ २४ ॥
विष्वक्सेनो हरिर्यज्ञः सम्युगापीडवाहनः । तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ २५ ॥
विष्णुप्रसादितो यज्ञः समुद्रो बडबामुखः । हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ २६ ॥
उग्रतेजा महातेजा जन्यो विजयकालवित् । ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ २७ ॥
शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली । वेणवी पणवी ताली खली कालकटङ्कटः ॥ २८ ॥
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः । प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः ॥ २९ ॥