सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् | स भूमिं विश्वतो वृत्वाऽत्यतिष्ठ्द्दड्गुलम्
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् | उतामृतत्वस्येशानो यद्न्नेनातिरोहति
एतावानस्य महिमाऽतो ज्यायांश्च पूरुषः | पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः | ततो विष्वड्व्यक्रामत्साशनानशने अभि
तस्माद्विराळजायत विराजो अधिपूरुषः | स जातो अत्यरिच्यत पश्चाभ्दूमिमथो पुरः
यत्पुरुषेण हविषा देवा यज्ञमतन्वत | वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धवि:
तं यज्ञं बहिर्षि प्रौक्षन्पुरुषं जातमग्रतः | तेन देवा अयजन्त साध्या ऋषयश्च ये
तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् | पशून्तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे | छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत
तस्मादश्वा अजायन्त ये के चोभयादतः | गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः
यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन् | मुखं किमस्य कौ बाहू का ऊरु पादा उच्येते
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः | ऊरुतदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत
चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत | मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत
नाभ्या आसीदन्तरिक्षं शीर्षणो द्यौ: समवर्तत | पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँअकल्पयन्
सप्तास्यासन्परिधयस्त्रि: सप्त समिधः कृता: | देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम्
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् | ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्या: सन्ति देवा: