एकदन्तो महावेगः सेनानी त्रिदशाधिपः । विश्वकर्ता विश्वबीजं ७०० श्रीः सम्पदह्रीर्धृतिर्मतिः
सर्वशोषकरो वायुः सूक्ष्मरूपः सुनिश्चलः । संहर्ता सृष्टिकर्ता च स्थितिकर्ता लयाश्रितः
सामान्यरूपः सामास्योऽथर्वशीर्षा यजुर्भुजः । ऋगीक्षणः काव्यकर्ता शिक्षाकारी निरुक्तवित्
शेषरूपधरो मुख्यः शब्दब्रह्मस्वरूपभाक् । विचारवाञ्शङ्खधारी सत्यव्रतपरायणः
महातपा घोरतपाः सर्वदो भीमविक्रमः । सर्वसम्पत्करो व्यापी मेघगम्भीरनादभृत्
समृद्धो भूतिदो भोगी वेशी शङ्करवत्सलः । शम्भुभक्तिरतो मोक्षदाता भवदवानलः
सत्यस्तपा ध्येयमूर्तिः कर्ममूर्तिर्महांस्तथा । समष्टिव्यष्टिरूपश्च पञ्चकोशपराङ्मुखः
तेजोनिधिर्जगन्मूर्तिश्चराचरवपुर्धरः । प्राणदो ज्ञानमूर्तिश्च नादमूर्तियुतोऽक्षरः
भूताद्यस्तैजसो भावो निष्कलश्चैव निर्मलः । कूटस्थश्चेतनो रुद्रः क्षेत्रवित् पुरुषो बुधः
अनाधारोऽप्यनाकारो धाता च विश्वतोमुखः । अप्रतर्क्यवपुः स्कन्दानुजो भानुर्महाप्रभः
यज्ञहर्ता यज्ञकर्ता यज्ञानां फलदायकः । यज्ञगोप्ता यज्ञमयो दक्षयज्ञविनाशकृत्
वक्रतुण्डो महाकायः कोटिसूर्यसमप्रभः । एकदंष्ट्रः कृष्णपिङ्गो विकटो धूम्रवर्णकः
टङ्कधारी जम्बुकश्च नायकः शूर्पकर्णकः । सुवर्णगर्भः सुमुखः श्रीकरः सर्वसिद्धिदः
सुवर्णवर्णो हेमाङ्गो महात्मा चन्दनच्छविः । स्वङ्गः स्वक्षः ८०० शतानन्दो लोकविल्लोकविग्रहः
इन्द्रो जिष्णुर्धूमकेतुर्वह्निः पूज्यो दवान्तकः । पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः
कुम्भभृत् कलशी कुब्जो मीनमांससुतर्पितः । राशिताराग्रहमयस्तिथिरूपो जगद्विभुः
प्रतापी प्रतिपत्प्रेयान् द्वितीयोऽद्वैतनिश्चितः । त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः
चतुर्थीवल्लभो देवो पारगः पञ्चमीरवः । षड्रसास्वादकोऽजातः षष्ठी षष्टिकवत्सरः
सप्तार्णवगतिः सारः सप्तमीश्वर ईहितः । अष्टमीनन्दनोऽनार्तो नवमीभक्तिभावितः
दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः । एकादशात्मा गणपो द्वादशीयुगचर्चितः
त्रयोदशमनुस्तुत्यश्चतुर्दशसुरप्रियः । चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः
दर्शादर्शो दर्शनश्च वानप्रस्थो मुनीश्वरः । मौनी मधुरवाङ्मूलं मूर्तिमान् मेघवाहनः
महागजो जितक्रोधो जितशत्रुर्जयाश्रयः । रौद्रो रुद्रप्रियो रुक्मो रुद्रपुत्रोऽघतापनः
भवप्रियो भवानीष्टो भारभृद्भूतभावनः । गान्धर्वकुशलोऽकुण्ठो वैकुण्ठो विष्णुसेवितः
वृत्रहा विघ्नहा सीरः समस्तदुरितापहः । मञ्जुलो मार्जनो मत्तो दुर्गापुत्रो दुरालसः
अनन्तचित्सुधाधारो वीरो वीर्यैकसाधकः । भास्वन्मुकुटमाणिक्यः कूजत्किङ्किणिजालकः
शुण्डाधारी तुण्डचलः कुण्डली मुण्डमालकः । पद्माक्षः पद्महस्तश्च ९०० पद्मनाभसमर्चितः
उद्गीथो नरदन्ताढ्यमालाभूषणभूषितः । नारदो वारणो लोलश्रवणः शूर्पकश्रवाः
बृहदुल्लासनासाढ्यव्याप्तत्रैलोक्यमण्डलः । इलामण्डलसम्भ्रान्तकृतानुग्रहजीवकः
बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटः । बृहदास्यरवाक्रान्तभीमब्रह्माण्डभाण्डकः