देवाग्रणीर्गणाध्यक्षो ह्यम्बुजालो महामतिः । अङ्गदी कुण्डली भक्तिप्रियो भक्तविवर्धनः
गाणपत्यप्रदो मायी वेदवेदान्तपारगः । कात्यायनीसुतो ब्रह्मपूजितो विघ्ननाशनः
संसारभयविध्वंसी महोरस्को महीधरः । विघ्नान्तको महाग्रीवो भृशं मोदकमोदितः
वाराणसीप्रियो मानी गहन आखुवाहनः । गुहाश्रयो विष्णुपदीतनयः स्थानदो ध्रुवः
परर्द्धिस्तुष्टो विमलो मौलिमान् वल्लभाप्रियः । चतुर्दशीप्रियो मान्यो व्यवसायो मदान्वितः
अचिन्त्यः सिंहयुगलनिविष्टो बालरूपधृत् । धीरः शक्तिमतां श्रेष्ठो महाबलसमन्वितः
सर्वात्मा हितकृद्वैद्यो महाकुक्षिर्महामतिः । करणं मृत्युहारी च पापसङ्घनिवर्तकः
उद्भिद्वज्री महादैत्यसूदनो दीनरक्षकः । भूतचारी प्रेतचारी बुद्धिरूपो मनोमयः
अहङ्कारवपुः साङ्ख्यपुरुषस्त्रिगुणात्मकः । तन्मात्ररूपो भूतात्मा इन्द्रियात्मा वशीकरः
मलत्रयबहिर्भूतो ह्यवस्थात्रयवर्जितः । नीरूपो बहुरूपश्च किन्नरो नागविक्रमः
एकदन्तो महावेगः सेनानी त्रिदशाधिपः । विश्वकर्ता विश्वबीजं ७०० श्रीः सम्पदह्रीर्धृतिर्मतिः
सर्वशोषकरो वायुः सूक्ष्मरूपः सुनिश्चलः । संहर्ता सृष्टिकर्ता च स्थितिकर्ता लयाश्रितः
सामान्यरूपः सामास्योऽथर्वशीर्षा यजुर्भुजः । ऋगीक्षणः काव्यकर्ता शिक्षाकारी निरुक्तवित्
शेषरूपधरो मुख्यः शब्दब्रह्मस्वरूपभाक् । विचारवाञ्शङ्खधारी सत्यव्रतपरायणः
महातपा घोरतपाः सर्वदो भीमविक्रमः । सर्वसम्पत्करो व्यापी मेघगम्भीरनादभृत्
समृद्धो भूतिदो भोगी वेशी शङ्करवत्सलः । शम्भुभक्तिरतो मोक्षदाता भवदवानलः
सत्यस्तपा ध्येयमूर्तिः कर्ममूर्तिर्महांस्तथा । समष्टिव्यष्टिरूपश्च पञ्चकोशपराङ्मुखः
तेजोनिधिर्जगन्मूर्तिश्चराचरवपुर्धरः । प्राणदो ज्ञानमूर्तिश्च नादमूर्तियुतोऽक्षरः
भूताद्यस्तैजसो भावो निष्कलश्चैव निर्मलः । कूटस्थश्चेतनो रुद्रः क्षेत्रवित् पुरुषो बुधः
अनाधारोऽप्यनाकारो धाता च विश्वतोमुखः । अप्रतर्क्यवपुः स्कन्दानुजो भानुर्महाप्रभः
यज्ञहर्ता यज्ञकर्ता यज्ञानां फलदायकः । यज्ञगोप्ता यज्ञमयो दक्षयज्ञविनाशकृत्
वक्रतुण्डो महाकायः कोटिसूर्यसमप्रभः । एकदंष्ट्रः कृष्णपिङ्गो विकटो धूम्रवर्णकः
टङ्कधारी जम्बुकश्च नायकः शूर्पकर्णकः । सुवर्णगर्भः सुमुखः श्रीकरः सर्वसिद्धिदः
सुवर्णवर्णो हेमाङ्गो महात्मा चन्दनच्छविः । स्वङ्गः स्वक्षः ८०० शतानन्दो लोकविल्लोकविग्रहः
इन्द्रो जिष्णुर्धूमकेतुर्वह्निः पूज्यो दवान्तकः । पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः
कुम्भभृत् कलशी कुब्जो मीनमांससुतर्पितः । राशिताराग्रहमयस्तिथिरूपो जगद्विभुः
प्रतापी प्रतिपत्प्रेयान् द्वितीयोऽद्वैतनिश्चितः । त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः
चतुर्थीवल्लभो देवो पारगः पञ्चमीरवः । षड्रसास्वादकोऽजातः षष्ठी षष्टिकवत्सरः
सप्तार्णवगतिः सारः सप्तमीश्वर ईहितः । अष्टमीनन्दनोऽनार्तो नवमीभक्तिभावितः
दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः । एकादशात्मा गणपो द्वादशीयुगचर्चितः