श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः । श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः
शातातपः शातकुम्भः शतञ्ज्योतिः शतम्भिषक् । पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः
रेणुकातनयो रामो रेवतीरमणो रमी । अश्वियुक् कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः
पुष्यशौर्यः फाल्गुनात्मा वसन्तश्चित्रको मधुः । राज्यदोऽभिजिदात्मीयस्तारेशस्तारकद्युतिः
प्रतीतः प्रोज्झितः प्रीतः परमः पारमो हितः । परहा पञ्चभूः पञ्चवायुः पूज्यः परं महः
पुराणागमविद् योग्यो महिषो रासभोऽग्रगः । ग्राहो मेषो वृषो मन्दो मन्मथो मिथुनार्चितः
कल्कभृत् कटको दीनो मर्कटः कर्कटो घृणी । कुक्कुटो वनजो हंसः परहंसः शृगालकः
सिंहः सिंहासनो मूषो मोह्यो मूषकवाहनः ६०० । पुत्रदो नरकत्राता कन्याप्रीतः कुलोद्वहः
अतुल्यरूपो बलदस्तुलाभृत् तुल्यसाक्षिकः । अलिचापधरो धन्वी कच्छपो मकरो मणिः
स्थिरः प्रभुर्महाकर्मी महाभोगी महायशाः । वसुमूर्तिधरो व्यग्रोऽसुरहारी यमान्तकः
देवाग्रणीर्गणाध्यक्षो ह्यम्बुजालो महामतिः । अङ्गदी कुण्डली भक्तिप्रियो भक्तविवर्धनः
गाणपत्यप्रदो मायी वेदवेदान्तपारगः । कात्यायनीसुतो ब्रह्मपूजितो विघ्ननाशनः
संसारभयविध्वंसी महोरस्को महीधरः । विघ्नान्तको महाग्रीवो भृशं मोदकमोदितः
वाराणसीप्रियो मानी गहन आखुवाहनः । गुहाश्रयो विष्णुपदीतनयः स्थानदो ध्रुवः
परर्द्धिस्तुष्टो विमलो मौलिमान् वल्लभाप्रियः । चतुर्दशीप्रियो मान्यो व्यवसायो मदान्वितः
अचिन्त्यः सिंहयुगलनिविष्टो बालरूपधृत् । धीरः शक्तिमतां श्रेष्ठो महाबलसमन्वितः
सर्वात्मा हितकृद्वैद्यो महाकुक्षिर्महामतिः । करणं मृत्युहारी च पापसङ्घनिवर्तकः
उद्भिद्वज्री महादैत्यसूदनो दीनरक्षकः । भूतचारी प्रेतचारी बुद्धिरूपो मनोमयः
अहङ्कारवपुः साङ्ख्यपुरुषस्त्रिगुणात्मकः । तन्मात्ररूपो भूतात्मा इन्द्रियात्मा वशीकरः
मलत्रयबहिर्भूतो ह्यवस्थात्रयवर्जितः । नीरूपो बहुरूपश्च किन्नरो नागविक्रमः
एकदन्तो महावेगः सेनानी त्रिदशाधिपः । विश्वकर्ता विश्वबीजं ७०० श्रीः सम्पदह्रीर्धृतिर्मतिः
सर्वशोषकरो वायुः सूक्ष्मरूपः सुनिश्चलः । संहर्ता सृष्टिकर्ता च स्थितिकर्ता लयाश्रितः
सामान्यरूपः सामास्योऽथर्वशीर्षा यजुर्भुजः । ऋगीक्षणः काव्यकर्ता शिक्षाकारी निरुक्तवित्
शेषरूपधरो मुख्यः शब्दब्रह्मस्वरूपभाक् । विचारवाञ्शङ्खधारी सत्यव्रतपरायणः
महातपा घोरतपाः सर्वदो भीमविक्रमः । सर्वसम्पत्करो व्यापी मेघगम्भीरनादभृत्
समृद्धो भूतिदो भोगी वेशी शङ्करवत्सलः । शम्भुभक्तिरतो मोक्षदाता भवदवानलः
सत्यस्तपा ध्येयमूर्तिः कर्ममूर्तिर्महांस्तथा । समष्टिव्यष्टिरूपश्च पञ्चकोशपराङ्मुखः
तेजोनिधिर्जगन्मूर्तिश्चराचरवपुर्धरः । प्राणदो ज्ञानमूर्तिश्च नादमूर्तियुतोऽक्षरः
भूताद्यस्तैजसो भावो निष्कलश्चैव निर्मलः । कूटस्थश्चेतनो रुद्रः क्षेत्रवित् पुरुषो बुधः
अनाधारोऽप्यनाकारो धाता च विश्वतोमुखः । अप्रतर्क्यवपुः स्कन्दानुजो भानुर्महाप्रभः