गौरीसुतो गुरुरवो गौराङ्गो गजपूजितः । परं पदं परं धाम परमात्मा कविः कुजः
राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः । ग्रहेन्द्रो ग्राहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः
पर्जन्यः पीवरो पोत्री पीनवक्षाः परार्जितः । वनेचरो वनपतिर्वनवासः स्मरोपमः
पुण्यं पूतः पवित्रं च परात्मा पूर्णविग्रहः । पूर्णेन्दुशकलाकारो मन्युः पूर्णमनोरथः
युगात्मा योगभृत् यज्वा ३०० याज्ञिको यज्ञवत्सलः । योगभृद् यशस्वी यजमानेष्टो व्रजभृद् वज्रपञ्जरः
मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः । मीनध्वजो मनोहारी योगिनां योगवर्धनः
द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः । तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः
रुचको मोचको रुष्टस्तुष्टस्तोमरधारकः । दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः
कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः । भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः
जालन्धरो जगद्वासी हासकृधवनो हविः । हविष्मान् हव्यवाहाक्षो हाटको हाटकाङ्गदः
सुमेरुर्हिमवान् होता हरपुत्रो हलङ्कषः । हालाप्रियो हृदाशान्तः कान्ताहृदयपोषणः
शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः । कूवरो धीमयो ध्याता ध्येयो धीमान् दयानिधिः
दविष्ठो दमनो द्युस्थो दाता त्राता सितः समः । निर्गतो नैगमी गम्यो निर्जेयो जटिलोऽजरः
जनजीवो जितारातिर्जगद्व्यापी जगन्मयः । चामीकरनिभोऽनाद्यो नलिनायतलोचनः
रोचनो मोचनो मन्त्री मन्त्रकोटिसमाश्रितः । पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः
पञ्चमः पश्चिमः पूर्वः ४०० पूर्णः कीर्णालकः कुणिः । कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः
लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् । ध्रुवो द्रुतगतिर्धर्म्यो धर्मी नाकिप्रियोऽनलः
अगस्त्यो ग्रस्तभुवनो भुवनैकमलापहः । सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः
सतीपतिः समरसः सनकः सरलः सुरः । सुराप्रियो वसुपतिर्वासवो वसुपूजितः
वित्तदो वित्तनाथश्च धनिनां धनदायकः । राजी राजीवनयनः स्मृतिदः कृत्तिकाम्बरः
आश्विनोऽश्वमुखः शुभ्रो भरणो भरणीप्रियः । कृत्तिकासनगः कोलो रोही रोहणपादुकः
ऋभुवेष्टोऽरिमर्दी च रोहिणीमोहनोऽमृतम् । मृगराजो मृगशिरा माधवो मधुरध्वनिः
आर्द्राननो महाबुद्धिर्महोरगविभूषणः । भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः
पुनर्देवः पुनर्जेता पुनर्जीवः पुनर्वसुः । तित्तिरिस्तिमिकेतुश्च तिमिचारकघातनः
तिष्यस्तुलाधरो जम्भ्यो विश्लेषोऽश्लेष एणराट् । मानदो माधवो माघो वाचालो मघवोपमः
मेध्यो मघाप्रियो मेघो महामुण्डो महाभुजः । पूर्वफाल्गुनिकः स्फीतः फल्गुरुत्तरफाल्गुनः
फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः । घोणाहस्तश्चतुर्हस्तो हस्तिवक्त्रो हलायुधः
चित्राम्बरो ५०० ऽर्चितपदः स्वादितः स्वातिविग्रहः । विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः
अणुरेणुः कलास्फारोऽनूरू रेणुसुतो नरः । अनुराधाप्रियो राध्यः श्रीमाञ्छुक्लः शुचिस्मितः
ज्येष्ठः श्रेष्ठार्चितपदो मूलं त्रिजगतो गुरुः । शुचिः पूर्वस्तथाषाढश्चोत्तराषाढ ईश्वरः