अकारादिक्षकारान्तविद्याभूषितविग्रहः । ॐ श्रीं विनायको ॐ ह्रीं विघ्नाध्यक्षो गणाधिपः
हेरम्बो मोदकाहारो वक्त्रतुण्डो विधिस्मृतः । वेदान्तगीतो विद्यार्थी शुद्धमन्त्रः षडक्षरः
गणेशो वरदो देवो द्वादशाक्षरमन्त्रितः । सप्तकोटिमहामन्त्रमन्त्रिताशेषविग्रहः
गाङ्गेयो गणसेव्यश्च ॐ श्रीं द्वैमातुरः शिवः । ॐ ह्रीं श्रीं क्लीं ग्लौं गं देवो महागणपतिः प्रभुः १०००
सहस्रनाममाहात्म्यम् \- इदं नाम्नां सहस्रं ते महागणपतेः स्मृतम् । गुह्यं गोप्यतमं गुप्तं सर्वतन्त्रेषु गोपितम्
सर्वमन्त्रनिधिं दिव्यं सर्वविघ्नविनाशनम् । ग्रहतारामयं राशिवर्णपङ्क्तिसमन्वितम्
सर्वविद्यामयं ब्रह्मसाधनं साधकप्रियम् । गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम्
यथेष्टफलदं लोके मनोरथप्रपूरणम् । अष्टसिद्धिमयं साध्यं साधकानां जयप्रदम्
विनार्चनं विना होमं विना न्यासं विना जपम् । अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रतः
चतुर्थ्यामर्धरात्रे तु पठेन्मन्त्री चतुष्पथे । लिखेद्भूर्जे रवौ देवि पुण्यं नाम्नां सहस्रकम्
धारयेत्तु चतुर्दश्यां मध्याह्ने मूर्ध्नि वा भुजे । योषिद्वामकरे बद्ध्वा पुरुषो दक्षिणे भुजे
स्तम्भयेदपि ब्रह्माणं मोहयेदपि शङ्करम् । वशयेदपि त्रैलोक्यं मारयेदखिलान् रिपून्
उच्चाटयेच्च गीर्वाणान् शमयेच्च धनञ्जयम् । वन्ध्या पुत्रांल्लभेच्छीघ्रं निर्धनो धनमाप्नुयात्
त्रिवारं यः पठेद्रात्रौ गणेशस्य पुरः शिवे । नग्नः शक्तियुतो देवि भुक्त्वा भोगान् यथेप्सितान्
प्रत्यक्षं वरदं पश्येद्गणेशं साधकोत्तमः । य एनं पठते नाम्नां सहस्रं भक्तिपूर्वकम्
तस्य वित्तादिविभवो दारायुस्सम्पदः सदा । रणे राजभये द्यूते पठेन्नाम्नां सहस्रकम्
सर्वत्र जयमाप्नोति गणेशस्य प्रसादतः । इतीदं पुण्यसर्वस्वं मन्त्रनामसहस्रकम्