बृहत्पादसमाक्रान्तसप्तपातालवेपितः । बृहद्दन्तकृतात्युग्ररणानन्दरसालसः
बृहद्धस्तधृताशेषायुधनिर्जितदानवः । स्फुरत्सिन्दूरवदनः स्फुरत्तेजोऽग्निलोचनः
उद्दीपितमणिस्फूर्जन्नूपुरध्वनिनादितः । चलत्तोयप्रवाहाढ्यनदीजलकणाकुलः
भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहः । ब्रह्माच्युतमहारुद्रपुरःसरसुरार्चितः
अशेषशेषप्रभृतिव्यालजालोपसेवितः । गूर्जत्पञ्चाननारावप्राप्ताकाशधरातलः
हाहाहूहूकृतात्युग्रसुरविभ्रान्तमानसः । पञ्चाशद्वर्णबीजाढ्यमन्त्रमन्त्रितविग्रहः
वेदान्तशास्त्रपीयूषधाराप्लावितभूतलः । शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलः
चिन्तामणिर्महामल्लो भल्लहस्तो बलिः कलिः । कृतत्रेतायुगोल्लासभासमानजगत्त्रयः
द्वापरः परलोकैककर्मध्वान्तसुधाकरः । सुधासिक्तवपुर्व्याप्तब्रह्माण्डादिकटाहकः
अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलः । अकाराकारप्रोद्गीततारनादनिनादितः
इकारेकारमन्त्राढ्यमालाभ्रमणलालसः । उकारोकारप्रोद्गारिघोरनागोपवीतकः
ऋवर्णाङ्कितॠकारपद्मद्वयसमुज्ज्वलः । लृकारयुतलॄकारशङ्खपूर्णदिगन्तरः
एकारैकारगिरिजास्तनपानविचक्षणः । ओकारौकारविश्वादिकृतसृष्टिक्रमालसः
अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलः । कर्णतालकृतात्युच्चैर्वायुवीजितनिर्जरः
खगेशध्वजरत्नाङ्ककिरीटारुणपादकः । गर्विताशेषगन्धर्वगीततत्परश्रोत्रकः
घनवाहनवागीशपुरःसरसुरार्चितः । ङवर्णामृतधाराढ्यशोभमानैकदन्तकः
चन्द्रकुङ्कुमजम्बाललिप्तसुन्दरविग्रहः । छत्रचामररत्नाढ्यमुकुटालङ्कृताननः
जटाबद्धमहानर्घमणिपङ्क्तिविराजितः । झाङ्कारिमधुपव्रातगाननादनिनादितः
ञवर्णकृतसंहारदैत्यासृक्पूर्णमुद्गरः । टङ्कारुकफलास्वादवेपिताशेषमूर्धजः
ठकाराढ्यडकाराङ्कढकारानन्दतोषितः । णवर्णामृतपीयूषधाराधरसुधाधरः
ताम्रसिन्दूरपुञ्जाढ्यललाटफलकच्छविः । थकारधनपङ्क्त्याढ्यसन्तोषितद्विजव्रजः
दयामयहृदम्भोजधृतत्रैलोक्यमण्डलः । धनदादिमहायक्षसंसेवितपदाम्बुजः
नमिताशेषदेवौघकिरीटमणिरञ्जितः । परवर्गापवर्गादिमार्गच्छेदनदक्षकः
फणिचक्रसमाक्रान्तगलमण्डलमण्डितः । बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरासुरः
भवानीहृदयानन्दवर्धनैकनिशाकरः । मदिराकलशस्फीतकरालैककराम्बुजः
यज्ञान्तरायसङ्घातघातसज्जीकृतायुधः । रत्नाकरसुताकान्तकान्तिकीर्तिविवर्धनः
लम्बोदरमहाभीमवपुर्दीनीकृतासुरः । वरुणादिदिगीशानरचितार्चनचर्चितः
शङ्करैकप्रियप्रेमनयनानन्दवर्धनः । षोडशस्वरितालापगीतगानविचक्षणः
समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपः । हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकः
क्षमापूरितहृत्पद्मसंरक्षितचराचरः । ताराङ्कमन्त्रवर्णैकविग्रहोज्ज्वलविग्रहः