पुष्पेषुर्मथनः पुष्टो विकर्ता कर्तरीकरः । अन्त्योऽन्तकश्चित्तगणश्चित्तचिन्तापहारकः
अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः । लिपितो लोहितो लुप्तो १०० लोहिताक्षो विलोभकः
लुब्धाशयो लोभरतो लाभदोऽलङ्घ्यगात्रकः । सुन्दरः सुन्दरीपुत्रः समस्तासुरघातनः
नूपुराढ्यो विभवदो नरो नारायणो रविः । विचारी वान्तदो वाग्मी वितर्की विजयेश्वरः
सुप्तो बुद्धः सदारूपः सुखदः सुखसेवितः । विकर्तनो वियच्चारी विनटो नर्तको नटः
नाट्यो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः । विश्वभूर्विश्वघाती च विनतास्यो विनर्तकः
करालः कामदः कान्तः कमनीयः कलाधरः । कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः
विकरालो गणश्रेष्ठः संहारो हारभूषणः । रुरु रम्यमुखो रक्तो रेवतीदयितो रसः
महाकालो महादंष्ट्रो महोरगभयापहः । उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः
सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् । असितात्मा भैरवेशो भाग्यवान् भगवान् भगः
भर्गात्मजो भगावासो भगदो भगवर्धनः । शुभङ्करः शुचिः शान्तः श्रेष्यः श्रव्यः शचीपतिः
वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः । विद्याप्रदो वेदसारो वैदिको वेदपारगः
वेदध्वनिरतो वीरो वरो वेदागमार्थवित् । तत्त्वज्ञः सवर्गः साधुः सदयः सद् २०० असन्मयः
निरामयो निराकारो निर्भयो नित्यरूपभृत् । । निर्वैरो वैरिविध्वंसी मत्तवारणसन्निभः
शिवङ्करः शिवसुतः शिवः सुखविवर्धनः । श्वैत्यः श्वेतः शतमुखो मुग्धो मोदकभोजनः
देवदेवो दिनकरो धृतिमान् द्युतिमान् धवः । शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः
शरण्यः शौनकः शूरः शरदम्भोजधारकः । दारकः शिखिवाहेष्टः शीतः शङ्करवल्लभः
शङ्करो निर्भवो नित्यो लयकृल्लास्यतत्परः । निर्भयो लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः
भ्रमणः शशभृत् सूर्यः शनिर्धरणिनन्दनः । बुद्धो विबुधसेव्यश्च बुधराजो बलन्धरः
जीवो जीवप्रदो जैत्रः स्तुत्यो नुत्यो नतिप्रियः । जनको जिनमार्गज्ञो जैनमार्गनिवर्तकः
गौरीसुतो गुरुरवो गौराङ्गो गजपूजितः । परं पदं परं धाम परमात्मा कविः कुजः
राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः । ग्रहेन्द्रो ग्राहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः
पर्जन्यः पीवरो पोत्री पीनवक्षाः परार्जितः । वनेचरो वनपतिर्वनवासः स्मरोपमः
पुण्यं पूतः पवित्रं च परात्मा पूर्णविग्रहः । पूर्णेन्दुशकलाकारो मन्युः पूर्णमनोरथः
युगात्मा योगभृत् यज्वा ३०० याज्ञिको यज्ञवत्सलः । योगभृद् यशस्वी यजमानेष्टो व्रजभृद् वज्रपञ्जरः
मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः । मीनध्वजो मनोहारी योगिनां योगवर्धनः
द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः । तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः
रुचको मोचको रुष्टस्तुष्टस्तोमरधारकः । दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः
कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः । भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः
जालन्धरो जगद्वासी हासकृधवनो हविः । हविष्मान् हव्यवाहाक्षो हाटको हाटकाङ्गदः