गणाध्यक्षो ग्लौं गं गणपतिर्गुणी । गुणाद्यो निर्गुणो गोप्ता गजवक्त्रो विभावसुः
विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी । सदाशान्तो जगत्तातो विश्वक्सेनो विभाकरः
विस्रम्भी विजयी वैद्यो वारान्निधिरनुत्तमः । अणीयान् विभवी श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः
विरूपाक्षो विमानस्थो विनयः सनयः सुखी । सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः
नन्दीश्वरो सदानन्दी वन्दिस्तुत्यो विचक्षणः । दैत्यमर्दी मदाक्षीबो मदिरारुणलोचनः
सारात्मा विश्वसारश्च विश्वचारी विलेपनः । परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः
वीरेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्धनः । भृङ्गिरीटी भृङ्गमाली भृङ्गकूजितनादितः
विनर्तको विनेतापि विनतानन्दनोऽर्चितः । वैनतेयो विनम्राङ्गो विश्वनेता विनायकः
विराटको विराटश्च विदग्धो विधिरात्मभूः । पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः
पुष्पेषुर्मथनः पुष्टो विकर्ता कर्तरीकरः । अन्त्योऽन्तकश्चित्तगणश्चित्तचिन्तापहारकः
अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः । लिपितो लोहितो लुप्तो १०० लोहिताक्षो विलोभकः
लुब्धाशयो लोभरतो लाभदोऽलङ्घ्यगात्रकः । सुन्दरः सुन्दरीपुत्रः समस्तासुरघातनः
नूपुराढ्यो विभवदो नरो नारायणो रविः । विचारी वान्तदो वाग्मी वितर्की विजयेश्वरः
सुप्तो बुद्धः सदारूपः सुखदः सुखसेवितः । विकर्तनो वियच्चारी विनटो नर्तको नटः
नाट्यो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः । विश्वभूर्विश्वघाती च विनतास्यो विनर्तकः
करालः कामदः कान्तः कमनीयः कलाधरः । कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः
विकरालो गणश्रेष्ठः संहारो हारभूषणः । रुरु रम्यमुखो रक्तो रेवतीदयितो रसः
महाकालो महादंष्ट्रो महोरगभयापहः । उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः
सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् । असितात्मा भैरवेशो भाग्यवान् भगवान् भगः
भर्गात्मजो भगावासो भगदो भगवर्धनः । शुभङ्करः शुचिः शान्तः श्रेष्यः श्रव्यः शचीपतिः
वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः । विद्याप्रदो वेदसारो वैदिको वेदपारगः
वेदध्वनिरतो वीरो वरो वेदागमार्थवित् । तत्त्वज्ञः सवर्गः साधुः सदयः सद् २०० असन्मयः
निरामयो निराकारो निर्भयो नित्यरूपभृत् । । निर्वैरो वैरिविध्वंसी मत्तवारणसन्निभः
शिवङ्करः शिवसुतः शिवः सुखविवर्धनः । श्वैत्यः श्वेतः शतमुखो मुग्धो मोदकभोजनः
देवदेवो दिनकरो धृतिमान् द्युतिमान् धवः । शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः
शरण्यः शौनकः शूरः शरदम्भोजधारकः । दारकः शिखिवाहेष्टः शीतः शङ्करवल्लभः
शङ्करो निर्भवो नित्यो लयकृल्लास्यतत्परः । निर्भयो लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः
भ्रमणः शशभृत् सूर्यः शनिर्धरणिनन्दनः । बुद्धो विबुधसेव्यश्च बुधराजो बलन्धरः
जीवो जीवप्रदो जैत्रः स्तुत्यो नुत्यो नतिप्रियः । जनको जिनमार्गज्ञो जैनमार्गनिवर्तकः
गौरीसुतो गुरुरवो गौराङ्गो गजपूजितः । परं पदं परं धाम परमात्मा कविः कुजः