यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् । याम्येन चाभवन् केशा बहवो विष्णुतेजसा
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् । वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योर्ऽकतेजसा । वसूनाञ्च कराङ्गुल्यः कौबेरेण च नासिका
तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा । नयनत्रितयं जज्ञे तथा पावकतेजसा
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च । अन्येषां चैव देवानां सम्भवस्तेजसां शिवा
ततः समस्तदेवानां तेजोराशिसमुद्भवाम् । तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः
ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च । ऊचुर्जयजयेत्युच्चैर्जयन्तीं ते जयैषिणः
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् । चक्रं च दत्तवान् कृष्णः समुत्पाद्य स्वचक्रतः
शङ्खञ्च वरुणः शक्तिं ददौ तस्यै हुताशनः । मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी
वज्रमिन्द्रः समुत्पाद्य कुलिशादमराधिपः । ददौ तस्यै सहस्राक्षो घण्टामैरावताद् गजात्
कालदण्डाद्यमो दण्डं माशं चाम्बुपतिर्ददौ । प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम्
समस्तरोमकूपेषु निजरश्मीन् दिवाकरः । कालख्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम्
क्षीरोदश्चामलं हारमजरे च तथाम्बरे । चूडामणिं तथा दिव्यं कुण्डले कटकानि च
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु । नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् । अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च
विश्वकर्मा ददौ तस्यै परशुञ्चातिनिर्मलम् । अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम्
अम्लानपङ्कजां मालां शिरस्युरसि चापराम् । अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम्
हिमवान् वाहनं सिंहं रत्नानि विविधानि च । ददावशून्यं सुरया पानपात्रं धनाधिपः
शेषश्च सर्वनागेशो महामणिविभूषितम् । नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम्
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा । संमानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः
तस्या नादेन घोरेण कृत्स्त्रमापूरितं नभः । अमायतातिमहता प्रतिशब्दो महानभूत्
चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे । चचाल वसुधा चेलुः सकलाश्च महीधराः
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् । तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः
दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः । सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः
आः किमेतदिति क्रोधादाभाष्य महिषासुरः । अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा । पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्
क्षोभिताशेषपातालां धनुर्ज्यानिः स्वनेन ताम् । दिशो भुजसहस्रेण समन्ताद् व्याप्य संस्थिताम्
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् । शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम्
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः । युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः
रथानामयुतैः षड्भिरुदग्राख्यो महासुरः । अयुध्यतायुतानाञ्च सहस्रेण महाहनुः
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः । अयुतानां शतैः षड्भिर्वाष्कलो युयुधे रणे