खडिगनी शूलिनी घोरा गदिनी चक्रिणी तथा । शङ्खिनी चापिनी बाण-भुशुण्डी परिघायुधा
सौम्या सौम्यतराशेष-सौम्येभ्यस्त्वतिसुन्दरी । परापराणां परमा त्वमेव परमेश्वरी
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके । तस्य सर्वस्य या शिक्तिः सा त्वं किं स्तूयते तदा
यया त्वया जगत्स्त्रष्टा जगत्पात्यत्ति यो जगत् । सो ऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः
विष्णुः शरीरग्रहणमहामीशान एव च । कारितास्ते यतो ऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता । मोहयैतौ दुराधर्षावसुरो मधुकैटभौ
प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ
एवं स्तुता तदा देवी तामसी तत्र वेधसा । विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ
नेत्रास्यनासिका-बाहु-हृदयेभ्यस्तथोरसः । निर्गम्य दर्शने तस्थौ ब्रह्मणो ऽव्यक्तजन्मनः
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः । एकार्णवे ऽहिशयनात्ततः स ददृशे च तौ
मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ । क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः । पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ । उक्तवन्तौ वरो ऽस्मत्तो व्रियतामिति केशवम्
भवनेतामद्य मे तुष्टौ मम वध्यावुभावपि । किमन्येन वरेणात्र एतावद्धि वृतं मम
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् । विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः
आवां जहि न यत्रोर्वो सलिलेन परिप्लुता । प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः
तथेत्युक्त्वा भगवता शङ्ख-चक्र-गदाभृता । कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् । प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते
देवासुरमभूद् युद्धं पूर्णमब्दशतं पुरा । महिषे ऽसुराणामधिपे देवानां च पुरन्दरे
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् । जित्वा च सकलान् देवानिन्द्रो ऽबून्महिषासुरः
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् । पुरस्कृत्य गतास्तत्र यत्रेश-गरुडध्वजौ
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् । त्रिदशाः कथयामासुर्देवाभिभवविस्तरम्
सूर्येन्द्रग्न्यनिलेन्दूनां यमस्य वरुणस्य च । अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठिति
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि । विचरन्ति यथा मर्त्या महिषेण दुरात्मना
एतद्वः कथितं सर्वममरारिविचेष्टितम् । शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम्
इत्थं निशम्य देवानां वचांसि मधुसूदनः । चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ
ततो ऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः । निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च
अन्येषाञ्चैव देवानां शक्रादीनां शरीरतः । निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् । ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम्
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् । एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा